________________
(३८
काव्यमाला।
हिमा उष्णा रुच: किरणा यस्य । यदुक्तं माघे-'उदयमहिमरदिमर्याति शीतांशुरस्तं कुमुदवनमपनि श्रीमदम्भोजखण्डम् । त्यजति मदमुलूकः प्रीतिमांश्चक्रवाको हतविधि. ललितानां ही दुरन्तो विपाकः ॥'
अर्हद्देशनवेश्मनीव सततं संत्यज्यतेऽस्मिन्मिथः
पारीन्द्रद्विरदादिजन्मिनिवहैराजन्मविद्वेषिता । राज्ये नीतिमतः क्षितेरधिपतेाता इवोर्वीस्पृशां ___ सर्वे सन्त्यकुतोभया यदचलोत्सङ्गे पुनः स्थायुकाः ॥ ११७ ॥ भो भव्याः, अस्मिन् शत्रुजये सततं निरन्तरं पारीन्द्रद्विरदादिभिः सिंहहस्तिप्रमुखैः। आदिशब्दाद्याघ्रधेनुचित्रमृगमार्जारमूषकमयूरनागाद्यैः ।अन्यैरपि बहुभिरङ्गिभिः प्राणिगणैर्मियः परस्परं जन्म मर्यादीकृत्याजन्म अवतारमुत्पत्तिमारभ्य । मरणान्तं यावदित्यर्थः । आजन्मनो विद्वेषिता वैरिभावः संत्यज्यते मुच्यते । कस्मिन्निव । अईद्देशनवेश्मनीव । यथा जिनेन्द्रसमवसरणे सर्वैः प्राणिभिर्मिथो वैरं संत्यज्यते । यदुक्तम्-'सारङ्गी सिंहशावं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं मार्जारी हंसबालं प्रणयपरवशा केकिकान्ता भुजङ्गम् । वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजन्ति धित्वाश्याम्यैकरूढप्रशमितकलुषं योगिनं क्षीणमोहम्॥' पुनर्यदचलोत्सङ्गे यस्य शत्रुजयस्य पर्वतस्योत्सङ्गे कोडे स्थायुका वसनशीलाः सर्वे खपरजातीयाः प्राणिनः न विद्यते कुत. श्चित्क्रस्माञ्चनापि भयं येषां ते अकुतोभया निर्भीका अज्ञातभयाह्वानाः सन्ति विद्यन्ते । कस्मिन्निव । राज्य इव । यथा नीतिमतो न्यायवतः क्षितेरधिपते राज्ञो राज्ये उौंस्पृशां मानवानां वाताः समूहा अकुतोभया भवन्ति ॥ .
स्वर्णोदयार्बुदब्रह्मगिर्याद्यष्टशतोन्मितैः।
सुतैरिवोत्तुङ्गशृङ्गैः परितः परिवारितः ॥ ११८ ॥ यः श्रीशत्रुजयपर्वतः उत्तुङ्गगगनावगाहिभिः शृङ्गैः शिखरैः परितः सर्वतश्चतुर्दिक्षु च परिवारः परिच्छेदः संजातोऽस्येति परिवारितः । परिचारयुक्तो जातं इत्यर्थः । किं. भूतैः शृङ्गैः । वर्णगिरिः-उदयगिरिः अर्बुदगिरिः-ब्रह्मगिरिः एते चत्वारः शैला आदौ प्रथमं यस्य तादृशेन अष्टाभिरधिकेन शतेन उन्मितैः प्रमाणीकृतैः । उत्प्रेक्ष्यते-उच्चैः शिरोभिः अथ वा उत्प्राबल्येन तुङ्गेभ्योऽपि महद्भयोऽपि तुङ्गैर्महद्भिः । 'तं मानतुङ्गमवशा समुपैति लक्ष्मीः ' इति भक्तामरस्तवे । मानेन तुङ्गो महान् इति मानतुङ्गः । सुते. नन्दनैरिव परिवारकलितः ॥
तीर्थमास्ते न विश्वेऽप्यदःसंनिभं विश्वकषेति रेखा किमेषा कृता ।। स्वर्गिणां निमगावत्पुनाना जनान्यत्र शत्रुजये भाति कल्लोलिनी॥११९॥ यत्र शत्रुजये शैले शत्रुजयनाम्नी कल्लोलिनी भाति नदी शोभते । किं कुर्वाणा ।