________________
१६ सर्गः]
हीरसौभाग्यम् ।
८३७
अदीक्षयत्तत्र स कांश्चिदिभ्यतनूभवान्गौतमवद्गणीन्द्रः ।
कांश्चित्ककुश्रेष्ठिमुखाङ्गमाजस्तुर्यव्रतोच्चारमकारयच्च ॥ ११४ ॥ तत्र प्रासादद्वारे गणिनामनूचानानानिन्द्रः पुरंदरः गणनायको वा कांश्चिदिभ्यतनूभवान् व्यवहारिनन्दनानदीक्षयत्प्रावाजयद्दीक्षां ददाति स्म । किंवत् । गौतमवत् । यथा गौतमखामी इभ्याद्यङ्गजान् दीक्षयति स्म । पुनः कांश्चित् अणहिल्लपाटकपत्तनसत्ककुनाम श्रेष्ठी प्रमुखो मुख्यो येषां तादृशानङ्गभाजो भव्यास्तुर्यव्रतं ब्रह्मचर्य तस्योचार प्रत्याख्यानमकारयत् ब्रह्मचर्यमुच्चारयति स्म ॥
पुण्डरीकान्तिकस्थासुरथोद्दिश्य वशीव सः ।
श्रीशजयमाहात्म्यं वृषाङ्कवदभाषत ॥ ११५ ॥ अथ दीक्षादानानन्तरं पुण्डरीकनामा ऋषभदेवप्रथमभृत्तन्मूर्तेरन्तिके समीपे तद्देवकुलिकामागत्य तत्पार्श्वे एव स्थास्नुस्तिष्ठतीति एवंशील एतावता मूलप्रासादद्वारादुत्थाय पुण्डरीकमूर्तेः पायें आगयोपविष्ट इत्यर्थः । तादृशो वशी जितेन्द्रियः सूरिविंशो यात्रिकलोकानुद्दिश्य श्रीशजयमाहात्म्यं विमलाचलमहिमानमभाषत कथयति स्म । किंवत् । वृषाङ्कवत् । यथा ऋषभदेवः पूर्व सिद्धशैलमाहात्म्यं भाषते स्म ॥ . यत्तीर्थेऽन्यत्र शुद्धाध्यवसितिविशदध्यानतः पूर्वकोट्या
प्राणी बध्नाति पुण्यं भवति भवभृतां तत्क्षणेनाप्यमुष्मिन् । भेतव्यं पातकेभ्यो भुवि न भविजनैर्भेद्यनिर्भेददक्षे . श्माभृत्यस्मिशरण्ये पुनरहिमरुचीवान्धकारोत्करेभ्यः ॥ ११६ ॥
अन्यत्र अपरस्मिस्तीर्थे शुद्धा निष्पापा या अध्यवसितिरध्यवसायः शुभपरिणामस्तेन कृत्वा यद्विशदं शुल्कध्यानं तस्मात्सप्ततिवर्षकोटिलक्षषट्पश्चाशत्कोटिसहस्रवर्षमानपू. र्वाणां कोट्या शतलक्षैः कृत्वा यत्पुण्यं शुभकर्म प्राणी बध्नाति जन्तुरुपार्जयति तत्पुण्यं तावत्प्रमाणं सुकृतममुष्मिन् शत्रुजये तत्क्षणात्स एव क्षणस्तत्क्षणस्तस्मात् । तत्काल एवेत्यर्थः । अष्टादशनिमेषैरेका काष्ठा, द्वाभ्यां काष्टाभ्यामेको लवः, पञ्चदशभिर्लवैरेका कला, द्वाभ्यां कलाभ्यामेको लेशः, पञ्चदशभिलेशैरेकः क्षणः, षड्भिः क्षणैरेका घटिका, द्वाभ्यां घटिकाभ्यां मुहूर्तम् , इत्यादिकालमानम् । भवभृतां भविनां भवति जायते । पुनर्भुवि पृथिव्यां शरणागतवज्रपञ्जरे अस्मिन् शत्रुजयनाम्नि पर्वते पृथ्वीपतौ च सति भविजनैर्भविकलोकैरनन्तदुःखदातृत्वाद्वैरिभूतेभ्यः पातकेभ्यः कथंचित्प्रमादात्पापानि कृत्वा न नैव भेतव्यं न भयमानेयम् । किंभूते । भेद्यानि भेत्तुं योग्यानि दुःकर्माणि तेषां निभेंदे घातने निवारणे दक्षे निपुणे । यदुकं शत्रुजयमाहात्म्ये-'न भेतव्यं पातकेभ्यः प्रमादिभिः । श्रयतामेकवेलं श्रीसिद्धक्षेत्रकथानकम् ॥' कस्मिन्निव । अहिमरुचीव । यथा अभ्युदिते सहस्रकिरणे अन्धकाराणां ध्वान्तानां भयं नानीयते । हिमादन्या अ.