________________
(३४
काव्यमाला।
श्वेतिमा च यस्य । 'गौरः श्वेतपीतयोः' इत्यनेकार्थः । पुनः किंभूतः । कलिता धृता शीतलेश्या शीतलता च येन ॥
जय प्रशमयन्मनोभवभटं महाबोधिव
कुदृक्कमलकाननोन्नमदकाण्डचण्डाम्बुदः। सलीलदलिताखिलप्रबलदोषदोषातमः
स्फुरद्विमलकेवलाम्बुरुहबन्धुबिम्बोदयः ॥ १०७ ॥ .. हे नाभेय देव, त्वं जय चिरकालं जीयाः। किं कुर्वन् । प्रशमयन्निघ्नन् । 'प्रोज्जासनं प्रशमनं प्रतिघातनं वधः' इति हैम्याम्। तथा 'वत्स्यति शमयति च दमयति च' इति क्रिया.. कलापे हिंसाथें । कम् । मनोभवः कंदर्पः स एव भटः वीरस्तम् । किंवत् । महाबोधिवत् । यथा बुद्धः स्मरशूरं प्रशमयामास । 'बोधिसत्त्वो महावोधः', तथा 'मारलोकरवजित् इति हैम्याम्।द्विकमपि । पुनः किंभूतः । कुदृशः कुपाक्षिकाः अन्यदर्शनिन एव कमलकाननानि पद्मवनखण्डानि तेषु उनमन् साडम्बरीभवन् जलभरेण भवन् वा महीं स्पृशन्वा अकाण्डे अप्रस्तावे प्रावृषं विनैव चण्डः कठिनः मुशलप्रमाणजलधारावर्षी अम्बुदो मेघः । 'बालातपमिवाब्जानामकालजलदोदयः' इति रघौ । 'निद्राणप्रकजसरसि जलदानेहसि' इति चम्पूकथायाम् । पुनः किंभूतः । सलील लीलासहितं यथा स्यात्तथा प्रयास विनैव दलितानि विध्वस्तानि चूर्णीकृतानि अखिलानि समस्तान्यपि प्रबन्धप्रसवानि अष्टादशसंख्याकाः प्रबला अनुकूलबलत्वात्परैर्मोहमूढतया कातरीभूतैरन्यैर्भर्तुमशक्या दोषा दानान्तराय-लाभान्तराय-वीर्यान्तराय-भोगान्तराय-उपभोगान्तराय-हास्य-रतिअरति-भय-जुगुप्सा-शोक-काम-मिथ्यात्व-अज्ञान-निद्रा-अविरवि-राग-द्वेषरूपा अपगुणा एव दोषातमांसि निशान्धकाराणि तैः कृत्वा स्फुरन्दीप्यमानो विमलो हिमाम्बुदापगमाद्विशदः केवलमनन्यापेक्षं लोकालोकप्रकाशकारकमनुत्तरं पञ्चमज्ञानं तदेवाम्बुरुहबन्धोः कमलसुहृदो दिनकरस्य बिम्बोदयः प्रादुर्भावो यस्य ॥
जयामृतविभूतिभाग्यन इवातिधीरध्वनि__निरञ्जनतयोदितो जलजवद्विशुद्धाशयः । सुधारस इव प्रभो सकलजन्तुजीवातुको
भकाद्भवभृतोऽम्बुधे गति पोतवत्तारयन् ॥ १०८ ॥ हे मारुदेवदेव, त्वं जय । त्वं किंभूतः । धन इव मेघवत् अमृतं निःश्रेयसं सलिलं च तस्य तेन वा विभूतिं संपत्ति शोभा वा भजतीति । चिण्प्रत्यये भाक् । तथा अ. तिशयेन सर्वेभ्यश्चराचरेभ्योऽभ्यधिकतया धीरो देशनासमये गम्भीरो वा ध्वनिर्वाग्विलासो गर्जितं गर्जारवो यस्य । पुनः किंभूतः । जलजवत् शङ्ख इवं । 'ततः प्रियोपात्तरसेऽधरोष्टे निवेश्य दध्मौ जलजं कुमारः' इति रघुवंशे । निर्गतमञ्जनं रागद्वेषोपलेपो