________________
१६ सर्गः] हीरसौभाग्यम् ।
(३३ एकोनविंशतिः एवं चतुस्त्रिंशत्तदतिशयरूपा पद्मिनीसद्मा पद्मवासा लक्ष्मीः । पद्मिन्यां कमले सद्म गृहं यस्याः सा । एतावता। 'श्रीहरिप्तिया । पद्मवासा' इति हैम्याम् । तथा 'पद्मिनी योषिदन्तरे। अब्जेऽब्जिन्यां सरस्यां च' इत्यनेकार्थः। तया। किंवत् । विटपिवत् । यथा विटपी पादपः विनिद्रया विकसितया वनवीरुधा विपिनवल्लया समालिङ्गयते ॥
जय प्रकटयन्पथो रविरिवाथ मभंस्तमः ___ कुदृग्भिरिव कौशिकैर्जगति दुनिरीक्ष्यः पुनः । गजेन्द्र इव वज्रिणः स्फुरदखण्डशौण्डीरिमा
मृगारिरिव निर्भयः परिभवन्कुरङ्गान्पुनः ॥ १०५ ॥ हे ऋषभ, त्वं चिरं जय । किं कुर्वन् त्वम्। प्रकटयन् । कान् । पथो मार्गान् । धर्मकर्मसंबन्धिनः खर्गापवर्गनरकादिकान्वा।क इव ।रविरिव भाखानिव । यथा भास्करः पथो भुवो मार्गान् प्रकाशयति स्पष्टान् दर्शयति । अथ पुनः रविरिव तमोऽज्ञानं पापं वा ध्वान्तं चमननिर्दलयंन्। पुनः रविरिव कौशिकैचूंकरिव जगति विश्वे कुदृग्भिः कुपाक्षिकैः दुःखेन कष्टेन निरीक्षितुं द्रष्टुं शक्यः । पुनर्वज्रिणो वासवस्य गजेन्द्र इव ऐरावण इव । स्फुरन् स्फूर्ति प्राप्नुवन् अखण्डः परैः सुरासुरनरैरप्रतिहतः शौण्डीरिमा पराक्रमो यस्य । पुनर्मुगारिरिव निर्भयो देवमनुजतिर्यकृतोपसर्गपरिषहादिभ्यो भीविरहितः । पुनः कुरङ्गः कुमतकुदर्शनमिथ्यात्वादिषु रङ्गो रागो वासना येषां तान् । 'रङ्गः स्यानृत्तयुद्रुवोः । रागे' इत्यनेकार्थः । मृगांश्च परिभवन्मन्नत् ॥
जयानिमिषसानुमानिव सुजातरूपः पुनः __ प्रभञ्जनभरैः कथंचन न कम्प्रभावं भजन् । सुधांशुरिव बोधयन्कुवलयं विलासर्गवां
समुल्लसितगौरिमा कलितशीतलेश्यः पुनः ॥ १० ॥ हे युमादिदेव, त्वं जय चिरं विजयवान् भव त्रिभुवनोपकारं कुर्वाणः प्रवर्तख । किभूतः । अनिमिषाणां देवानां सानुमान् शैल: सुमेरुरिव सुष्टु शोभनं त्रैलोक्यातिशायि जातमुत्पन्नं प्रादुर्भूतं वा रूपं यस्य मेरौ तु प्रकृष्टं जातरूपं वर्ण यस्मिन् । पुनः किंभूतः । प्रकर्षेणातिशयेन भजता उपमर्दनाव्याघातादिकारिण उपसर्गाः प्रतिकूलदेवादयो वा तेषां भरैर्गणैः कथंचन कम्प्रभावं कम्पनशीलतां कातरतया भन्मपरिणामतां न नैव भजन् । मेरुस्तु वातवेगैश्वाचलित्वं न भजते चालयितुमशक्यः । पुनः सुधांशुश्चन्द्र इव गवां विलासैः पञ्चत्रिंशद्गुणाकलितयोजनविस्तरद्वाचां चातुरीभिश्चन्द्रिकाप्रचारैश्च कुवलयं मेदिनीमण्डलं तत्र स्थायुकत्वेन उपलक्षणत्वाज्जगत्रयमपि उत्पलं च बोधयन् प्रतिबोधं प्रापयन् प्रतिबोधकलितं कुर्वन् विकाशयंश्च । पुनः किंभूतः । समुल्लसितां स्फूर्तिमत्तां प्राप्तः चतुरलोचनपुटकपेयतां प्राप्तो वा गौरिमेव विकचचम्पककाञ्चनवद्वपुःपीतिमा