________________
२८
काव्यमाला ।
यत्र प्रह्लादनपुरे उपवनं समीपोद्यानं विभाति शोभते । किंभूतम् । विनिद्रन्तो विकस्वरीभवन्तस्तथा सान्द्राः सच्छाया घनपत्रच्छन्ना वा ये द्रुमा वृक्षास्तेषां द्रोणिः श्रेणिः । 'भिल्ली पल्लवशङ्कया विचिनुते सान्द्रद्रुमद्रोणिषु' इति चम्पूकथायाम् । द्रोणिः श्रेणिरिति तहिप्पनके । तथा 'द्रोणी तु नीति। नौभेदे शैलसंधौ वा इत्यनेकार्थः। 'द्रोणी द्रोणिरिदन्तः श्रेण्यामपि' इत्यनेकार्थावचूरिः । तत्र मिलन्तो विहङ्गाः पक्षिणो यत्र तत् । किमु. त्प्रेक्ष्यते-भुवि पृथिव्यां वास्तु गृहं यस्याः । वास्तुशब्देन गृहमपि । यथा नैषधे-'यावपौलस्त्यवास्तूभवदुभयहरिल्लोमलेखोत्तरीये' इति । सा पौलस्त्यपुरी धन्दनगरी तस्या भ्रमेण शङ्कया तामन्वितमनुपृष्टे समेतं तच्चक्षुर्गोचरतामगच्छत् । चैत्ररथं वैश्रवणोद्यानमिव ।।
आमुष्मिकामैहिकवत्समीहां निर्माहि नः पूरयितुं प्रभूष्णून् । विज्ञीप्सवः पार्श्वमितीव यत्र प्राप्ता द्रुमाङ्गा इव कल्पवृक्षाः ॥ ८४ ॥ 'यत्रोपवने द्रुमा वृक्षास्त एवाझं शरीरं येषां ते कल्पवृक्षाः प्राप्ताः समेताः । उत्प्रेक्ष्यतेपार्श्व प्रलादनपार्श्वनाथमित्यमुना प्रकारेण विज्ञीप्सवो विज्ञापितुं विज्ञप्तिका कर्तुमिच्छव इव । इति किम् । हे पार्श्वप्रभो, त्वं नोऽस्मानैहिकवत् इहलोकसंपन्धिनीमिव आमुष्मिकां परलोकसंवन्धिनीमपि समीहां वाञ्छां पूरयितुं प्रदातुमर्थात्सुरासुरनराणां प्रभूष्णून समर्थान् निर्माहि ॥ अथ वने षढतूनां सत्तां दर्शयतिश्रीनन्दनं हीरकुमाररूपं यस्यां भविष्यन्तमवेत्य मन्ये । साहायकायास्य समं समेत्य सर्वर्तवस्तद्विपिनं भजन्ते ॥ ८५ ॥ सर्वे वसन्तप्रीष्मवर्षाशरद्धेमन्तशिशिरनामान ऋतवः समयविशेषाः समं समकालं समेत्यागत्य तस्याः पुर्यास्तदेव वा विपिनं वनं भजन्ते सेवन्ते । तत्राहमेवं मन्ये जानामि विचारयामि वा । हीरकुमारस्य रूपं स्वरूपं यस्य तादृशं श्रीनन्दनं कामं यस्यां पुर्या भविष्यन्तं भावितमवेत्य ज्ञात्वा अस्य स्मरस्य प्राग्वत्साहायकाय सहायककार्यायेव वनं श्रयन्ते ॥ इति समुदायेन सर्वर्तवः ॥
अथ प्रथम वसन्तऋतुःयत्र भ्रमद्धृङ्गरसालमाला विलोक्य कूजत्कलकण्ठबालाः। रतीशवीरस्तृणवत्रिलोकीमजीगणन्निस्तुलशस्त्रलाभात् ॥ ८६ ॥ यंत्र वने भ्रमन्तो मकरन्दपानार्थमितस्ततः पर्यटन्तो भृङ्गा मधुकरा यासु तादृश्यो रसालमालाः सहकारपङ्कीविलोक्य निस्तुलानामसाधारणानां प्रतिभटकोटीभिरप्यभिभवितुमशक्यानां शस्त्राणामायुधानां लाभात्प्राप्तः । रतीशवीरः स्मरसुभटस्त्रिलोकीं जगत्रयीं तात्स्थ्यात्तद्यपदेशान्नाकिनागनागरान् तृणवत्तृणमिव अजीगणत् गणयति स्म मन्यते स्म वा । किंभूता रसालमालाः । कूजन्त्यः पञ्चमध्वनिमुद्भावयन्त्यः कलकण्ठानां कोकिलानां पालाः खियो यासु ताः॥