SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ होरसौभाग्यम् । चूतप्ररोहायुधकिंशुकार्धचन्द्राशुगानां दलवर्मितानाम् । यद्भूरुहां स्वर्द्वजयोद्यतानामदुन्दुभीयन्त पिकाः क्वणन्तः ॥ ८७ ॥ स्वर्भूरुहां कल्पवृक्षाणां जयाय पराभवायोद्यतानां प्रगल्भमानानां कृतोद्यमानां यस्य वनस्य भूरुहां तरूणां क्वणन्तः कूजन्तः पिकाः कलकण्ठा अदुन्दुभीयन्त दुन्दुभय इवाचरन्ति स्म । किंभूतानां भूरुहाम् । चूतानां माकन्दानां प्ररोहा अङ्कुरास्त एवायुधानि प्रहरणानि येषां ते तथा किंशुकानि पलाशकुसुमानि तान्येवार्धचन्द्राकारा आशुगा बाणा येषां पश्चात्कर्मधारयः । पुनः किंभूतानाम् । दलैः पत्रैः कृत्वा वर्मितानां संनाहितानां कवचयुक्तीभूतानां तथा दलानि सैन्यानि कर्माणि कवचास्तानि संजातानि एषामिति वा ॥ अथ ग्रीष्मः मे नमस्याम्बुधरायमाणतमालधारागृहधोरणीभिः । तपर्तुताम्यत्तनुकुअलक्ष्म्याः सुसीमतायै किमनुष्ठिताभिः ॥ ८८ ॥ नमस्यस्य भाद्रपदस्य अम्बुधरो मेघस्तद्वदाचरन्तीभिस्तमालानां तापिच्छतरूणां धाराभिर्यन्त्रविशेषकृत जलधाराभिरुपलक्षितानां गृहाणां सौधानां धोरणीभिः श्रेणीभिर्बभे रेजे । उत्प्रेक्ष्यते - तपर्तुना श्रीष्मसमयेन ताम्यन्ती ग्लानिं खेदं वा गच्छन्ती तनुः शरीरं यस्यास्तादृश्याः कुञ्जलक्ष्म्या वनथियाः सुसीमतायै शीतलताकृते । 'शीते तुषारः शिशिरः सुसीमः शीतलो जडः । हिम:' इति हैम्याम् । किंभूताभिः । अनुष्ठिताभिः कृताभिरजनैस्तया वा ॥ अथ वर्षा १ सर्गः ] - २९ श्रीहीरवीक्षोत्सुकता इवान्तनेत्राणि विस्मेरमणीचकानि । धाराकदम्बा दधतेऽत्र सत्रा सान्द्रापनिद्रत्कुटजावनीजैः ॥ ८९ ॥ अत्रोपवने धाराभिर्मेघवृष्टिभिराहता आच्छोटिताः कदम्बा नीपद्रुमांस्ते विस्मेराणि विकचानि मणीकानि कुसुमानि दधते धारयन्ति । कथम् । सत्रा सार्धम् । कैः । सान्द्राः स्निग्धा अपनिद्रन्तो विकसन्तो ये कुटजा गिरिमल्लिका एवावनिजा द्रुमास्तैः । इवोत्प्रेक्ष्यते । अन्तश्चित्ते श्रीभिर्युक्तस्य हीरकुमारस्य वीक्षायां दर्शने उत्सुकिता उत्क - ण्ठिताः सन्तो विनिद्रनेत्राणीव दधते ॥ अथ शरत् सप्तच्छदान्स्पर्धितदानगन्धीन्रोलम्बरावाकुलितान्विलोक्य । विरोधिकुम्भिभ्रममादधाना धावन्ति मुग्धा इह सिन्धुरेन्द्राः ॥ ९० ॥ इह वने मुग्धा मूर्खा मदोद्धततया किमप्यविदन्तो वा सिन्धुरेन्द्रा गजराजा अभिमुखा धावन्त्यभिमुखं गच्छन्ति । किं कुर्वाणाः । विगेधिकुम्भिनां प्रतिभटगजानां भ्रमं भ्रान्ति आदधाना बिभ्रतः । किं कृत्वा । सप्तच्छदान् सप्तपर्णद्रुमान् विलोक्य । किंभूतान् ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy