________________
१ सर्गः] __ हीरसौमाम्यम् ।
२७ सेरमितानां प्रमाणं येषां तानि पूगफलानि क्रमुकीसस्यानि । 'पूगे क्रमुकगीवाकू तस्योद्वेगं पुनः फलम्' इति हैम्याम् । उपेयुः पुरा आगच्छन्ति स्म । उत्प्रेक्ष्यते-श्रीपार्श्वभर्तुः परिशीलनाभिः सेवाभिः कृत्वा स्वं स्वकीयमुद्वेगभावं निर्वेदत्वमपकर्तु हन्तुमिव । एता. वता चैत्ये प्रत्यहं षोडशमणपूगीफलान्यागच्छन्ति स्म ।
अशीतिरस्मिन्नधिकाश्चतुभिर्महेभ्यमुख्याः श्रितशीकरीकाः। सुरा विमानैरिव याप्यमानैः स्मागत्य शृण्वन्ति गिरं गुरूणाम् ॥८०॥
अस्मिन् प्रह्लादनपुरे चतुर्भिरधिका अशीतिः । चतुरशीतिरित्यर्थः । महेभ्यमुख्याः प्रकृष्टव्यवहारिणोऽर्थात् प्रह्लादनपार्श्वनाथं प्रणम्य गुरूणां धर्माचार्याणा गिरं वाणी देशनां शृ. ण्वन्ति स्म शुश्रुवुः । किंभूताः । श्रिताः शीको महेभ्यताया गजमान्यताया वा चिह्नविशेषा यः आसन्नविशेषा वा छत्राकृतयो वा। फिरङ्गदेशप्रसिद्धाः । किं कृत्वा । आगत्य। कैः । याप्यमानैः शिविकाभिः । कैरिव । विमानैरिव । यथा देवा विमानैरागच्छन्ति ॥ अथ रत्नपुरुषोत्पत्तिस्थानकतां कविर्दर्शयतिवपुःश्रिया भसितमच्छकेतुरद्वैतवैराग्यरसाम्बुराशिः । लब्धीर्दधानो विविधाश्च वज्रस्वामीव विश्वागमपारदृश्वा ॥ ८१ ॥ सोमादिमः सुन्दरसूरिसिंहः प्राग्वाटवंश्यो निजजन्मना यत् । साकेतमिक्ष्वाकुकुलावतंसो महोक्षलक्ष्मेव पुरापुनीत ॥ ८२ ॥ प्राग्वाटानां वंशे भव: प्राग्वाटवंश्यः । सोम इति शब्द आदिमः प्रथमो यस्य स सु. न्दरनामा सूरिष्याचार्येषु सिंहो मुख्यः । 'सिंहशार्दूलनागाद्याः प्रशस्यार्थप्रकाशकाः' इति हैमीवचनात् । एतावता श्रीसोमसुन्दरसुरीन्द्रः निजस्यात्मन उत्पत्त्या कृत्वा यत्प्रह्लाद. नपुरं पुरा पूर्वमपुनीत पवित्रीचकार । क इव । महोक्षलक्ष्मेव । यथा इक्ष्वाकणां कुलस्य वंशस्य अवतंसः शेखरः श्रीवृषभलाञ्छनो जिनो भाविनि भूतोपचागत् । साकेतं को. शलां नगरी स्वजन्मना पावनीकरोति स्म । सूरिः किंविशिष्टः । वपुषः शरीरस्य श्रिया शोभया भत्सितो न्यकृतो मच्छकेतुमानध्वजो मदनो येन । पुनः किंभूतः । अद्वैतोऽसाधारणो यो वैराग्यरसः संसारविरक्तताशान्ततादिरूपः तस्याम्बुराशि: समुद्रः । पुनः किं कुर्वाणः । दधानो बिभ्राणः । काः । विविधा नानाप्रकारा लब्धीः सामर्थ्यविशेषान् । च पुनः किंभूतः । विश्वे समस्ताः स्वदर्शनपरदर्शनसक्ता ये आगमाः शास्त्राणि तेषां पारं दृष्टवानिति पारदृश्वा । स्वसमयपरसमयपारगामी । क इव । वज्रस्वामीव यथा वज्रस्वामी पूर्वोक्तविशेषणविशिष्टोऽजनिष्ट ॥ युग्मम् ॥ इति नररत्नखनिनगरम् ।
अथ मुख्यतो नगरवर्णनम् । तत्रादावुपवनं वर्ण्यतेविभाति यत्रोपवनं विनिद्रत्सान्द्रद्रुमद्रोणिमिलद्विहङ्गम् । भूवास्तुपौलस्त्यपुरीभ्रमेण तामन्वितं चित्ररथं किमेतत् ॥ ८३ ॥