________________
८२५
१६ सर्गः] हीरसौभाग्यम् । रिवशेति प्रतिपादितम् । तस्या अंसं स्कन्धमासेदुषी आश्रितवती मरुदेवी नातिनृपपत्नी ऋषभदेवजननी अभावभौ । उत्प्रेक्ष्यते-इति वक्तुं निवेदयितुं समेत्य कुतश्चि. स्थानादागत्य पुरो युगादिदेवस्याग्रे तिष्ठति स्मेव । इति किम् । हे आत्मज औरसपुत्र, अनन्यानामसाधारणानां गुणानां शौयौदार्यधैर्यगाम्भीर्यशौण्डीर्यार्जवमार्दवादीनामीशितुर्भर्तुः समुद्रस्य तव भवतः कृते अर्थाय अनन्तानां प्रमाणातीतानां ज्ञातिवचनगोचरा. तिक्रान्तावसानानां सातानां महासुखानामेका अद्वितीया भूः स्थानं शिवस्मेरदृक् मुक्तिरूपा कामिनी । पाणिग्रहणकरणोत्सुक्याद्रुच्यरुच्या वानं विलोकयतीत्यत एव स्मेरदृक्त्वं प्रोक्तम् । मुक्तिमानिनी मया तजनन्या निरीक्षिता नितरां सर्वगुणाधारतया प्रथिता विलोकितास्ति । तत्तस्मात्कारणात् त्वं वृषभ, एहि त्वरितमागच्छ । आगल्य च तां निर्वतिनानी कनीम् अष्टादशकोटाकोटीसागरोपमप्रमितकालोऽभूत् कोऽपि भारतीयक्षेत्रसत्कपुमान् वृतो नास्ति, अत एव प्रौढां कुमारिकां वृणु वरय परिणयेति ॥
अयं श्रयति मां सदा तनय वाहनव्याजत
स्तदुद्धरतमाममुं श्रितहितो महान्यद्भवेत् । इतीव गदितुं मुदा भगवतः पुरस्तस्थुषी
समेत्य मरुदेव्यसौ गजपतेरुतांसासिता ॥८॥ असौ मूलप्रासादगर्भाग्रे दृश्यमाना मरुदेवी भगवन्माता उत गजपतेदिपराजस्य अंसे स्कन्धे आसिता उपविष्टा सती समेत्य ऋषभाभ्यर्णेऽभ्यागत्य मुदा हर्षेण भगवतः खपुत्रस्य परमेष्टिनः पुरोऽग्रे पुरस्तात् तस्थुषी स्थितवती। उत्प्रेक्ष्यते-इत्यमुना प्रकारेण गदितुं कथयितुमिव । इति किम् । हे तनय ऋषभदेव, अयं द्विपपतिर्गजेन्द्रो वाहनव्याजतो याननिभात्सदा सर्वदापि मां तव मातरं मरुदेवी श्रयति सेवते । तत्तस्मात्कारणादमुं करीन्द्रं जगदुद्धरणधीर, उद्धरतमां सर्वथा सर्वप्रकारेण तिर्यक्त्वदूषितात्संसारा. न्मोचय । यद्यस्मात्कारणान्महानुत्तमः पुरुषः श्रिते खभक्तीभूते हितो वत्सलो भवेत् । निजस्य पुंसः समीहितमवश्यं करोत्येव । यदुक्तम्-'विहलं जो अवलंबइ आवय पडियं . च जो समुद्धरइ । सरणागयं च रक्खइ तिसु तैहि अलंकिया पुहवी ॥' तथा-'मरुदेवा. मरुदेव्यपि' इति आकारान्तमीकारान्तं च नामद्वयं हेमनाममालावृत्तौ। तथा केनिकरिणीस्कन्धारूढा केचिच्च गजराजांसाध्याश्रितेति च प्रतिपादयन्ति । ततो द्वे अपि पृथगुत्प्रेक्षे इत्युतशब्दः ॥ इति गजस्कन्धाधिरूढा मरुदेवी ॥
महोदयमृगीदृशा सह विनोदनिर्मित्सया
विलासमणिमन्दिरं विमलशैलचूलोपरि । अकारि वृषकेतुना स्वयमिवात्र नाभीभुवा
युगादिजिनसद्मनि श्रयति गर्भगेहः श्रियम् ॥ ८९ ॥ १०४