SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ ८२४. काव्यमाला । स्थूणाः श्रियं शोभां विभ्रते कलयन्ति । किंभूताः । स्वर्णघटितत्वेऽपि विशेषमाह — कु तूहलिभिः कैश्चित्कौतुकवद्भिः शिल्पिभिः कृतानि असितोपलानामिन्द्रनीलमणीनां तलं स्तम्भाधो विभागः ऊर्ध्वं स्तम्भोपरितनप्रदेशः मध्ये स्तम्भान्तराले तत्र प्रदेशद्वये । कर्मधारये । मध्यानि येषां ते । किं कुर्वन्तः । विशिष्टचित्ररूपाः सुरा देवा अंथ वा विचित्रा विविधजातीयाश्चतुर्निकायिका देवतास्तेषां विभ्रममन्तः कल्पितशिल्पत्वेन विलासं विभूषां भ्रान्ति वा प्रदधतो धारयन्तः । उत्प्रेक्ष्यते - तलमधोवर्ती भूमिभागः भूमी प्रदेश एव विवक्षया न तु भूमध्यगो विभागः तथा उपरिशिखरोच्चचूलिका मध्ये स्तम्भविलासे एतावता मध्ये भागद्वयं तानि भजन्ति इति तलोपरि विचालभाजि तादृशानि वनानि अधोभूमौ भद्रसालवनं शिखरचूलिकायां पाण्डुकवनं विचालभागद्वये तु - नन्दनं सौमनसं चैत्याख्यानि चत्वारि काननानि विभ्रतीति भृतः तादृशाः स्वर्नगा मेरुपर्वता इव । 'रत्नसानु: सुमेरुः स्वः स्वर्गिकाञ्चनतो गिरिः' इति हैम्याम् ॥ हरिये इह सेवकस्तव जिनेन्द्र सोऽस्मद्विषन्विधापय मिथस्ततस्त्वदमुना समं सौहृदम् । इतीव गदितुं वृषध्वजजिनालयस्तम्भको पधेरखिलभूभृतः प्रभुमुपेत्य शीलन्त्यमी ॥ ८६ ॥ वृषो वृषभो ध्वजश्चि लाञ्छनं यस्य तादृशो जिनो युगादिदेवस्तस्यालयं गृहं ऋषभविहारस्तस्य स्तम्भका आधारस्थूणास्तेषामुपधेर्व्याजादमी प्रत्यक्षलक्ष्या मन्दरादयः अखिलाः समस्ताः भूभृतः पर्वता उपेत्य अत्र प्रासादे समागत्य प्रभुं श्रीऋषभखामिनं शीलन्ति भजन्ति । उत्प्रेक्ष्यते - इत्यमुना प्रकारेण गदितुं कथयितुमिव । इति किम् । हे जिनेन्द्र युगादिप्रभो, इह जगति यो हरिरिन्द्रस्तव भवतः सेवकस्त्वत्पादपद्मसेवाविधातास्ते सोऽस्माकं द्विषन् शत्रुः पक्षच्छेदकर्तृत्वेन प्रबलप्रतिपक्षो वर्तते ततस्तस्मात्कारणात् हे प्रभो, त्वदमुना त्वद्भक्तिभाजा हरिणा सममस्माकं मिथः परस्परं सौहृदं मैत्र्यं सखिभावं विधापय कारय । महात्मना प्रभुणा च खयमन्तरा भूयः कृतः संधिः कदाचिदपि न विघटते इति वक्तुमिव ॥ इति प्रासादमध्यस्तम्भाः ॥ अनन्यगुणवाहिनीशितुरनन्तसातैकभूः कृते तत्र निरीक्षितात्मज मया शिवस्मेरदृक् । तदेह वृणु तां कनीमिति समेत्य वक्तुं पुरः स्थितेव मरुदेव्यभात्करिवशांसमासेदुषी ॥ ८७ ॥ यस्मिन् प्रासादे करिणो हस्तिनो वशा पत्नी हस्तिनी । यद्यपि वशाशब्देन करिणी कथ्यते । 'इभः करेणुर्गजोऽस्य स्त्री धेनुका वशापि च' इति हैमीवचनात् । तथापि वशाशब्दो नार्यामेव प्रायो वर्तते । तत्कारणादेव मनुष्यजातिस्त्रीभ्रम निवारणार्थे च क
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy