SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् । उपेत्य जिनमन्दिरान्तरमितीव विज्ञीप्सया भजन्ति सुरसुभ्रुवः प्रभुमनन्यचित्रोपधेः ॥ ८३ ॥ जिनमन्दिरान्तः श्रीऋषभचैत्यमध्ये उपेत्य अर्थात्स्वर्गलोकादागत्य अनन्यानामसाधारणानां चित्राणामुपधेश लेख्यानां छलात्सुरसुभ्रुवः अप्सरसः । ' स्वः स्वर्गिवध्वो ऽप्सरसः ' इति हैम्याम् । प्रभुं भगवन्तं भजन्ति सेवन्ते । उत्प्रेक्ष्यते - इत्यमुना प्रकारेण किं विज्ञी - सया विज्ञप्तिं कर्तुमिच्छयेव । इति किम् । हे श्रिया चतुस्त्रिंशदुदयलक्ष्म्या त्रैलोक्याधिपत्यलक्ष्म्या वा लक्षितविभो स्वामिन् परमेष्ठिन् भवच्चरणसेवनैः श्रीमत्पदपरिचरणैरस्माभिर्युलोकेन्दिरां स्वर्गलोकलक्ष्मीमधिगताः प्राप्ताः । अथ नरजन्म विना मनुष्यावतारं विनैव नोऽस्माकं पुराङ्गनानां शिवश्रियं मोक्षलक्ष्मीं सिद्धिसंपत्ति दिश प्रदेहि ॥ १६ सर्गः ] ८२३ प्रयोजयति नः सदा खपदसाभिलाषीभव त्तपस्वितपसां व्ययीकृतिविधौ विभो जम्भभित् । इमां जहि विडम्बनां किमिति भाषितुं मण्डपे ऽथ वाप्सरस आगताः परिचरन्ति चित्रोपधेः ॥ ८४ ॥ विभो स्वामिन्, स्वस्यात्मनः पदे स्थाने इन्द्रैश्वर्यप्राप्तौ सहाभिलाषेण कामेन वर्तन्ते ये तादृशा भवन्तः संपद्यमाना ये तपखिनस्तापसास्तेषां तपसां घोरानुष्ठानोपवासादिकष्टानां व्ययीकृतिविधौ नाशनिर्मापणप्रकारे जम्भभिद्वासवः सदा चतुर्ष्वपि . युगेषु न: अस्मानप्सरसः प्रयोजयति प्रयुक्ते प्रेषयति । तथा च इन्द्रपदप्राप्त्यभिलाषेण तपः कुर्वतस्तापसान् कष्टध्यानतपोभ्यः पातयितुं पुरंदरेण प्रेषिता अप्सरसः प्रेक्ष्य तंद्रपलावण्यमोहिता विस्मृतख तपोध्यानानुष्ठानास्ते ता एव कामयमानास्तद्भोगासक्तिभाजो भूताः सन्तस्ततः सर्वे स्वकीयं पुराचीर्णतपोमूलादेव हारयन्ति - इति परशासनकविसमयः । तत्कारणात् हे विभो त्रिभुवनजननाथ, त्वं नोऽस्माकमिति गम्यम् । इमां येषां तेषां बलयुववृद्ध कृशाजाति जातिप्रमुखाणां तपसामङ्गसंगमाख्यमिषादप्सरसः सर्व'वनिता उर्वशीमेनकाघृताचीरम्भादिकाः प्रासादमण्डपे आगताः सत्यः किमु प्रभुं परिचरेन्ति भजन्तीव ॥ इति मण्डपमध्यचित्राणि ॥ कुतूहलिकृतासितोपलतलोर्ध्वमध्या कचन्महारजतनिर्मिता जिननिकेतनस्तम्भकाः । विचित्रसुरविभ्रमं प्रदधतः श्रियं बिभ्रते तलोपरि विचालभाग्वनभृतः किमु स्वर्नगाः ॥ ८९ ॥ कचित्कुत्रचित्प्रदेशे महारजतैः काञ्चनैर्निर्मिता विरचिता जिननिकेतनस्य मूलचैत्यस्य स्तम्भकाः । पादपूरणे खार्थे कप्रत्ययः । स्तम्भाः एव स्तम्भकाः प्रासादमण्डपाद्याधा
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy