________________
८१८
काव्यमाला। चैत्यशिखरे दण्डो मातीति संबन्धः । उत्प्रेक्ष्यते-अमुना ऋषभकूटकमलामौलिचू. डामणिना जिनेशितुर्वृषभदेवखामिनः सद्मना मन्दिरेण ऋषभचैत्येन शिरःशिखरे उपरितनशृङ्गे संस्फुरत् वज्ररत्ननिर्मितत्वात् दीप्यमानं दृश्यमानं वा निबिडं दृढमभेद्यं दण्डरनं दधे किमु धृतमिव । किंभूतम् । सपनानां वैरिणां निवहस्य गणस्य यः स्मयः अहंकारः स एवाम्बुनिधिः समुद्रः तस्य माथे मथने मन्थाचलं क्षुब्धपर्वतं मन्दरगिरिम् । 'पाथोधिमाथसमयोत्थितसिन्धुपुत्रीपत्पङ्कजार्पणम्' इति, तथा 'मन्थानगः स भुजगप्रभुवेष्टिधृष्टिः' इति द्वयमपि नैषधे । किंभूतेन सद्मना । विजेतुमनसा पराभवितुकामेन । अर्थात्स्वस्पर्धितभुवनत्रये नाकिनागगेहमहीत्रितये स्वेषामात्मीयानां विभवानां शोभातिशयानामङ्ककाराणां जैत्रप्रतिमल्लानां व्रजान् समूहान्विभाव्य विलोक्य विज्ञाय वा । 'दूर गौरगणैरहंकृतिभृतां जैशङ्ककारे चरत्' इति नैषधे ॥
निभाल्य नलिनीधवं खविभवेन संस्पर्धितां
दधानमधिकं क्रुधोद्धषितवर्मणाचिमिषात् । जिनाधिपतिवेश्मना सुरपथे खदण्डस्फुर
.. त्करः परिबुभूषया द्विष इवैष ऊवीकृतः ॥ ७२ ॥ निभाल्य नलिनीधवं दण्डो दीप्यते। जिनाधिपतेर्वृषभखामिनो वेश्मना, मन्दिरेण विहारेण एष सर्वजनप्रत्यक्षः खस्यात्मनो यो दण्डः स एव स्फुरन् प्रकटीभवन्करो हस्तः द्विषो भास्खल्लक्षणवेरिणः परिवुभूषया चपेटामुष्टिप्रहारादिभिः पराभवितुमिच्छया सुरपथे आकाशे ऊध्वीकृत उन्नतो विहित इव । किंभूतेन वेश्मना । अनिमिषात्सर्वतः स्फुरत्कान्तिकपटात् अधिकं यथा स्यात्तथा क्रुधा कोपेन कृत्वा उद्बुषितमुत्कण्टकितं प्रोच्चैर्भूतरोमराजि वर्म शरीरं यस्य । किं कृत्वा । स्वेनात्मीयेन विभवेन शोभासमुदायेन साध संस्पर्धितां सम्यक् मनसा वचसा कायेन च स्पर्धनशीलतां दधानं बिभ्राणं नलिनीधवम् । 'नलिनीप्रेमनिबद्धो मानसगमनाय सत्वरो हंसः। न च गच्छति न च तिष्ठति उभयरसव्याकुलीभूतः ॥' भास्कर निभाल्य दृष्ट्वा ॥ इति चैत्यशृङ्गदण्डः ॥
विजित्वरविभूतिभिः प्रतिपदं परिस्पर्धिनो
विजित्य जिनसद्मना जगति वैजयन्तादिकान् । द्विषद्विजयबोधिकाध्रियत मूर्ध्नि मन्येऽमुना
विहारशिखरे मरुत्तरलवैजयन्ती व्यभात् ॥ ७३ ॥ विहारस्य ऋषभचैत्यस्य शिखरे उच्चशृङ्गे मरुता पवनवेगेन तरला चञ्चला अन्दोलायमाना वैजयन्ती महापताका व्यभाद्भासते स्म । तत्राहमेवं मन्ये विचारयामि । उत्प्रेक्ष्यते वा-अमुना सर्वप्रासादमूलभूतेन जिनगृहेण युगादिजिनचैत्येन प्रतिपदं पाताललोके खलोंके भूलोके च स्थाने स्थाने क्रमं क्रमं वा । निजेनात्मना सह स्पर्धिनः