________________
१६ सर्गः हीरसौभाग्यम् । स्पर्धाविधायिनः विरोधिनो वा जगति विश्वे वैजयन्त इन्द्रप्रासाद आदी येषां ते। खार्थे के। आदिकास्तान्विजित्वरीमिः प्रतिस्पर्धिनां विशेषेण जयनशीलामिः पुत्रद्भावे विभू. तिभिः खत्रीभिर्विजित्य पराभूय द्विषतां सर्ववैरिणां विजयस्य पराभवनस्य बोधिकां ज्ञापयित्री परेषां कथनशीलां मूर्ध्नि निजमखके वैजयन्ती ध्वजोऽधियत धृतेव ॥
दिनं दिनमुदीत्वरद्युमणिचण्डिमाडम्बरो. खुरप्रसमरप्रभाप्रकरतापसंतापितः । रसं रसितुमम्बराम्बुधिवधूप्रवाहान्तरे . दिवि प्रकटितो ध्वजः खरसनेव जैनौकसा ॥ ७४ ॥ ध्वजो राजते इति संबन्धः । जेनौकसा अईत्प्रासादेन भगवत्संबन्धिविहारेण सम्बरस्थाकाशस्य या अम्बुधेः समुद्रस्य वधूः पत्नी नदी एतावता गगनापगा खर्गका तस्याः प्रवाहस्य पयःपूरस्यान्तरे मध्ये रसं पानीयं रसितुं पातुम् । 'क्षारं जलं जलनिधे रसितुं क इच्छेत्' इति भकामरस्तोत्रे । दिवि आकाशे । उच्चैरित्यर्थः । उत्प्रेक्ष्यतेप्रकटिता स्फुटीकृता वक्राहिर्विहिता ध्वजरूपा पताका काया खरसना आत्मजिव । कुतः कारणात्। दिनं दिनम् । अत्र प्रातरध्याहारः कार्यः। प्रतिवासरम्। 'दिनेश्वरश्रीरुदयं दिने दिने' । अत्रापि सप्तमी वा । उदीत्वरस्योदयनशीलस्य द्युमणेर्भास्करस्य चण्डि. मस्त्रीव्रताया आडम्बर आटोपो बाहुल्यं तेनोदुरा असह्यास्तथा प्रसमरा प्रसरणशीला या प्रभाः कान्तयस्खासां प्रकरः सहस्रसंख्यत्वेन समूहस्तस्य तापः संज्वरः ऊष्मातिरेकः तेन संतापितः ॥ इति पताका ॥
न कश्चिदुपलब्धिमान्न जनसंशयच्छेदक
न कोऽपि च शिवंगमी जगति पूर्ववदृश्यते । महोदयविधायकोऽर्हति निषेव्यतां सांप्रतं
मही महिमसंपदां तदयमेक एवाचलः ॥ ७९ ॥ सदाकृतिवपुः पदं परिचरामि यस्य प्रभोः
प्रकाशितमिदं खयं जगति तेन मत्खामिना । पटु प्रकटयाम्यहं गणिवदस्य तीर्थस्य त
अभावमतिशायिनं त्रिभुवनाद्विचिन्त्येति किम् ॥ ७६ ॥ जिनेन्द्रसदनाम्बरान्तरनुषङ्गि शृङ्गाङ्गणा
निलप्रचलकेतनस्फुरदकुण्ठकण्ठीरवः । पुरस्त्रिजगदङ्गिनामिति निजान्तिकावासभा
प्रणज्झणिति किङ्किणीकणमिषेण किं भाषते ॥ ७७ ॥