________________
१६ सर्गः] हीरसौभाग्यम् । ८१७ क्रमवशात्समुपैति लक्ष्मीः' इति भक्तामरस्तवे। तेषां विजित्वरं जयनशीलम् ॥ इति शिखरम् ॥
धनादि जगदीहितं प्रभवितास्मि दातुं पुनः
शिवादिकमलाकरं प्रणय मां प्रभों त्वामिव । इतीव जगदीश्वरं गदितुमुत्सुकीभावुकः
समेत्य सुमनोनिपो भजति चैत्यशृङ्गे स्थितः ॥ ६९ ॥ सुमनोनिपः कामकुम्भः समेत्य स्वर्गादागत्य चैत्यशृङ्गे प्रासादशिखरे स्थितस्तिष्ठन् सन् जगदीश्वरं त्रिभुवननायकं श्रीऋषभदेवं भजति उपास्ते। उत्प्रेक्ष्यते-इत्यमुना प्रकारेण गदितुं कथयितुमुत्सुकीभावुकः उत्कण्ठीभवनशीलः सन्निव । इति किम् । हे प्रभो त्रैलोक्यनाथ, अहं धनादि द्रव्यभोज्यवस्त्राभरणादिकं जगदीहितं जनमनःकामितं दातुं प्रभवितास्मि समर्था भवामि । पुनस्त्वं मां शिवादिकमलाकरं स्वर्गापवर्गप्रमुखलक्ष्मीकारकं प्रणय कुरु । कमिव। त्वामिव। यथा त्वां स्वःसिद्धि कमलाकारिणं निगदन्ति ॥
विधास्यति विभोरहर्निशमुपास्तिमभ्येत्य यः ____स मद्वदमृतम्फुरन्नुपरिसंस्थितिं लप्स्यते। .. विसृत्वरविनिःसरत्करभरैरिदं प्राणिनां
पुरः प्रवदतीव यत्कनकक्लुप्तकुम्भः स्वयम् ॥ ७० ॥ यस्य चैत्यस्य कनकेन काञ्चनेन कुप्तो रचितः कुम्भः कलशः विसत्वरैः प्रसरणशीले: विनिःसरद्भिर्बहिर्निर्गच्छद्भिः करमरैः किरणसमूहः हस्तसंघातैश्च कृत्वा खयमात्मना प्राणिनां सर्वेषां जगजन्तूनां पुरः पुरस्तात् इदमेतस्मिन्नेव काव्ये कथ्यमानं प्रवदति प्रकर्षण कथयतीव । इदं किम् । हे प्राणिनः, यो जनः अभ्येत्य भगवत्पार्श्वे समागत्य अहर्निशमहोरात्रं विभोः ऋषभदेवस्योपास्ति सेवां विधास्यति करिष्यति स पुमान् अमृते मोक्षे स्फुरन् कर्मराहित्याज्योतिर्मयत्वाद्दीप्यमानः सन् उपरि त्रिभुवनस्याप्युपरितनप्रदेशे लोकाग्रे संस्थितिं निवासं लप्स्यते प्राप्स्यति । किंवत् । मद्वत् । यथाहं पार्थिवः कलशोऽहर्निशं विभुं सेवमानः अमृतेन पानीयेन स्फुरन् पूर्णत्वेन प्रकटीभवन् सर्वेषामपि चक्षुर्लक्ष्यः संपद्यमानः सन् उपरि जनमस्तकोपरि संस्थितिं लभे प्राप्नोमि ॥ इति चैत्यकलशः ॥
विभाव्य भुवनत्रये स्खविभवाङ्ककारवजा
विजेतुमनसामुना किमु जिनेशितुः सद्मना । सपत्ननिवहस्मयाम्वुनिधिमाथमन्थाचलं
शिरःशिखरसंस्फुरन्निबिडदण्डरत्नं दधे ॥ ७१ ॥