SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। यस्य प्रासादस्य अल्पानि मूलशिखरापेक्षया लघूनि यानि शिखराणि शृङ्गाणि तेषां छलेन कपटेन अल्पिता अल्पाः कुर्वन्तीति अल्पयन्ति अल्प्यन्ते स्मेत्यल्पिताः अल्पाः कृताः । 'मृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिद्यदरिद्रतां नृपः' इति नैषधे । यास्तनूलताः शरीरयष्टीरालम्बन्ते आश्रयन्ते इत्येवंशीला भूधराः पर्वताः कदम्बाचलं शत्रुजयशैलम् । 'लोहिव्वउ तालज्झउ कयंवृत्ति' इति शत्रुजयकल्पे कदम्ब इत्यभिधानम् , तथा एकचत्वारिंशदभिधानेष्वपि कदम्बाभिधास्तीति । यं कदम्बाचलं भजन्ते । उत्प्रेक्ष्यते-धराणां गिरीणां वैरिणः शत्रोरिन्द्रस्य दरेण किमु भयेनेव । किं कृत्वा । वसुधातले भूमण्डले द्विधापि द्वाभ्यां प्रकाराभ्याम् ऐहिकामुष्मिकभेदात् जगतां भुवनानामीहितमभीप्सितं प्रददतं प्रकर्षेण सर्वोत्कृष्टतया विश्राणयन्तम् । अर्थात्खसे. वाकारिणं शत्रुजयाद्रिमवेत्य ज्ञात्वा । तथा अखिलानां समस्तानां महाभयानां रोगगज. मृगेन्द्रदवानलविषधरसंयामसमुद्रवैरशत्रुप्रभृतीनां प्रबलभीतीनामालम्भो व्यापादनमस्थास्तीति अर्थात्खाश्रितानां तादृशं वयमवेत्य शास्त्रवचसा लोकपरंपरया वा ज्ञात्वा ॥ जगगिरिविजित्त्वरं महिमभिर्महीभृद्भरै-. . रवेत्य भुवि भूधराभिनवसार्वभौमं नगम् । स्वबालशिखरैरमुं किमु न सेवितुं प्रेषितैः . कुमारशिखरैर्बभे यदतितुङ्गशृङ्गाश्रयैः ॥ १८ ॥ यदतितुङ्गे यस्य प्रासादस्य अतिशयेन गगनालिङ्गित्वेन अत्युच्चैस्तरे महति शृङ्गे मूलशिखरे आश्रयो निवासो येषाम् । मूलशृङ्गे लगन्ति अनेकानि अन्यानि अल्पानि शिखराणि भवन्तीति प्रत्यक्षमपि लक्ष्यते । तादृशैः कुमारशिखरैलघुशृङ्गः बभे शुशुभे । कुमारशब्दोऽत्र केवलं लघुत्वमेव वक्ति । यथा नैषधे–'रचयति रुचिः शोणीमेतां कुमारितरा रवेः' । अत्र तु कुमारितरा रवेः । कुमारितरा प्रथमनिर्गतत्वेन लध्वी रुचिः कान्तिः । तथात्रापि महच्छिखरापेक्षया लघूनि अत एव कुमाराणि शृङ्गाणि इति । उत्प्रेक्ष्यते-महीभृतां भरैगिरीणां गणैः राज्ञां चक्रैश्च भुवि पृथिव्यां भूधराणां शैलानां भूपतीनां च मध्ये अभिनवं नवीनं प्रादुर्भूतं सार्वभौमं चक्रवर्तिनममुं नगं शत्रुजयाच. लमवेत्य विज्ञाय तं सेवितुमुपासितुं प्रेषितैः खबालशिखरैः किमु निजनिजडिम्भ”. डैरिव । राजानो हि चतुर्दशखप्तसूचितनवीनोत्पन्नचक्रवर्तिनं विज्ञाय खखकुमारनन्दनांस्तत्सेवार्थ प्रेषयन्तीति स्थितिः । यथा कल्पसूत्रव्याख्याने महावीरचरित्रे-'गजव. पभपश्चाननादिमचतुर्दशखप्तसूचितमहावीरदेवजन्म ज्ञात्वा श्रेणिकचण्डप्रद्योतादयः कुमाराः सेवार्थ खपितृभिः प्रहिताः। इति किम् । नगं महिमभिस्तुगताभिः । यदुक्तम्'सर्वेषामपि शैलानामुन्नतो विमलाचलः । यदारोहेण लोकाग्रं प्राप्यते बालकैरपि ॥' इति वचनात्तुङ्गिमा । माहात्म्यमस्य तु सर्वेभ्योऽभ्यधिकं प्रसिद्धमेवास्ति । जगत्सु विश्वेषु ये गिरयः पर्वताः पर्वतप्रायाः उच्चस्तरत्वेनाभिमानितया वा तुङ्गा । यथा-'तं मानतु.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy