________________
१६ सर्गः] हीरसौभाग्यम् ।
८१५ बहुन् लोकान् पान्ति आजीविकाभिः रक्षयन्ति पालयन्तीत्यनेकपाः। 'बन्धनस्थोऽपि मातङ्गः परेषां मरणक्षमः' इति सूक्तवचनात् । सन्तो हस्तिनश्च तेषां कदनं व्यापादनं मारणम् । 'निर्ग्रन्थनं प्रमथनं कदनं निबर्हणम्' इति हैम्याम् । धातनाभिधानानि ॥ इति चैत्यकंधरामृगेन्द्राः ॥
युगादिजिनमन्दिरे शिखरमम्बराडम्बरं
विडम्बयति चण्डरुक्किरणमण्डलं वैभवैः । पुनर्निजसपक्षतामिव समीहमानो जिनं
भजन्नमरभूधरो भुवनकामितखस्तरुम् ॥ १६ ॥ युगादिजिनः प्रथमतीर्थकरस्तस्य मन्दिर गृहं प्रासादस्तत्राम्बरे आकाशे आडम्बरः शोभातिशयो यस्य तादृशं शिखरं शृङ्गं वैभवैः सुषमाभिः कृत्वा चण्डरुचः सूर्यस्य किरणमण्डलं ज्योति:पुजं विडम्बयति धिक्करोति अनुकरोति वा । यदुक्तम्-'विकलयति कलाकुशलं हसति शुचिं पण्डितं विडम्बयति । अधरयति धीरपुरुषं क्षणेन मकरध्वजो देवः ॥' इति चम्पूकथायां विडम्बनार्थः । 'पुण्डरीकातपत्रस्तं विकसत्कास. घामरः । ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ॥' इति रघौ । अनुकरणार्थोऽत्र । इत्यर्थद्वयमपि । उत्प्रेक्ष्यते--पुनर्द्वितीयवारमिन्द्रेण छिन्नपक्षत्वात् अपरवेलायां निजस्यात्मनः सपक्षतां पक्षयुक्तलम् । पूर्व सर्वेऽपि पर्वताः सपक्षा आसन् । ततः स्वेच्छयोडीयोडीय यंत्र तत्राप्यकाण्ड एवातर्किता आगत्य पतन्तः सन्तः पृथिवीमतीव व्याकुलीकुर्वन्ति स्म । ततः पृथिवी खोके पुरंदरपुरो गला मुत्करोति स्म । तदनु दम्भोलिपाणिना सादरं सस्नेहं पृष्टा सती लोचनयुगलगलवाष्पपयःप्लवा सगद्गदखरं कथंकथमपि कथयामास । यत् 'मध्यमलोके समग्रा अपि गिरयः सपक्षखाद्यथाकाममुत्पत्योत्पत्य खरुचितस्थाने निपतन्तो मामतिभारभङ्गुरगात्री कुर्वाणाः खेदखिनमनस्कां विदधते। तस्मादहं तदतिगरिमोद्गारिस्फारभारासासहितया पातालमूलं प्रवेक्ष्यामि।' इति वसुधावचनश्रवणानन्तरं संजातातिकोपेन पुरहूतेन खपाणिप्रज्वलज्जोतिर्खालाकरालदम्भोलिना कृत्वा सर्वेषामपि पर्वतानां पक्षाः क्षणाच्छेदिताः-इति पुराणोक्तिः श्रूयते। अथ पुनः पक्षाभ्यां सहितत्वं समीहमानो वाञ्छन् भुवनानां तात्स्थ्यात्तद्वयपदेशात्रिभुवनजनानां सुरासुरनराणां कामिते वाञ्छितप्रदाने खस्तरं कल्पवृक्षं तादृशं नाभेयं देवं भजन सेवमानः अमरभूधरो मेरुरिव ॥
अवेत्य जगदीहितं प्रददतं कदम्बाचलं
द्विधापि वसुधातलेऽखिलमहाभयालम्भिनम् । दरेण धरवैरिणः किमु भजन्ति यं भूधरा
यदल्पशिखरच्छलाल्पिततनूलतालम्बिनः ॥ १७ ॥