________________
.१६ सर्गः] हीरसौभाग्यम् ।
८११ सर्वतः सर्वाखपि दिक्षु अर्हतां भगवतां लघुभिरल्पप्रमाणैर्गुहैर्देवकुलिकाभिरलंकृतं शोभितं वृषभकेतनार्हतः वृषभदेवस्य गृहं चैत्वं स्फुरति दीप्यते । कैः क इव । तारकैज्योतिर्भिस्तमीशश्चन्द्र इव । पुनर्ग्रहाणां मङ्गलादीनामोधैः समूहैर्ग्रहपतिः सूर्य इव । पुनरसुरैः दानवैरसुरेश्वरो दानवेन्द्रवत् । पुनः सुरैर्देवैः सुरेशो देवेन्द्र इव । पुनर्मानवैमनुष्यैः नरेन्द्रो राजेव ॥
क्षयं प्रलयकालजं निजमवेक्ष्य साक्षान्मरु
सरिज्जलरयैरिवाक्षयपदोदयाकाङ्ख्या । उपासितुमुपागतैरिह पदारविन्दं प्रभो
wलासि सदने वृषध्वजजिनस्य सोपानकैः ॥ १७ ॥ वृषध्वजजिनस्य युगादिदेवस्य सदने गृहे मूलप्रासादे प्रवेशनमार्गे सोपानकैरारोहणैर्व्यलासि शुशुभे । अत्र कः खार्थे । उत्प्रेक्ष्यते न विद्यते क्षयो विनाशो यत्र तादृशस्य पदस्य स्थानस्य संपदो वा उदय आविर्भावः तस्याकाङ्क्षया वाञ्छया इह शत्रुजये प्रभो ऋषभस्य युगादिदेवस्य पदारविन्दं चरणकमलमुपासितुं सेवितुमुपागतैः समीपे समेतैर्मरुत्सरितो गङ्गाया जलरयैः पयःप्रवाहैरिव । किं कृला उपागतैः । प्रलयकालः कल्पान्तषष्टारकलक्षणः तस्माज्जातं निजमात्मीयं खसंबन्धिनं क्षयं विनाशं षष्ठारके क्रमाद्विशुष्यजला रथचक्रमार्गमात्रप्रवाहा गङ्गा भविष्यतीति श्रुतिः । सार्धद्विषष्टियोजनमानजलप्लवो विशोध्य द्विहस्तप्रमाणप्रवाहो भविता इति । अल्पशब्दस्याभाववाचित्वात्क्षय एव साक्षादागयोक्तवाक्यात्प्रत्यक्षेणैवावेक्ष्य दृष्ट्वा । ज्ञाला इत्यर्थः ॥
इमा अनिशनिम्नगा बत जडाशया वक्रतां ___ वहन्त्यहरहस्तथा सप्रतिकूलवृत्तिप्रथाः । श्रितोत्पलमधुव्रतान्कृतकुलक्षयैराश्रिता . धरन्ति च पदे पदे भुवनभङ्गरङ्गं पुनः ॥ १८ ॥ नमन्निकटवर्तिनामवनिजन्मनां घातुकाः
स्वकीयवचनीयतामिति जिघांसुभिः सिन्धुभिः । निषेवितुमिव प्रभोः पुर उपागताभिर्बभे
यदाप्तसदनाग्रतो विविधरत्नसोपानकैः ॥ १९ ॥ यस्य श्रीशत्रुजयसंबन्धिनः आप्तसदनस्य मूलजिनगृहस्याप्रतः पुरस्ताद्विविधानां ना. नाप्रकाराणां रत्नानां मणीनां सोपानकैः । स्वार्थे कप्रत्ययः । आरोहणैर्वा बभे शुशुभे। उत्प्रे क्ष्यते-निषेवितुमर्थात् युगादिजिनमुपासितुं प्रभोः ऋषभदेवस्य पुरोऽग्रे उपागताभिः संप्राप्ताभिः सिन्धुभिर्नदीभिरिव । किं कर्तुकामाभिः । इत्यमुना प्रकारेण खकीयामा