________________
काव्यमाला |
अकबरसा हिसंमानितो हीर विजयनामा प्रभुस्तपागणश्रमणस्वामी अर्थात्सूरिः वरणस्य मूलप्रासादप्राकारस्य गोपुरं प्रतोलीं प्राविशत् प्रविशति स्म । उत्प्रेक्ष्यते – ऋषभो वृषभो ध्वजश्चिमूरुविषयलाञ्छनं यस्य युगादिरेव जिनानां सामान्यकेवलिनां मध्ये अवन्या भूमेर्वज्रिणः पुरंदरस्य । राज्ञ इत्यर्थः । प्रवेशनं सिंहद्वारमिव । ततो गोपुरप्रवेशानन्तरमस्य सर्वाभ्यन्तरवरणगोपुरस्य सोपानके आरोहणगणे सोपानानां समूहः सोपानकं तस्मिन् । समूहार्थे कप्रत्ययः । हास्तिकादिवत् । सूरिर्व्यभासत संशोभते स्म । क इव । सुराणां देवानामम्बुधेः समुद्रस्य वधूः पत्नी एतावता देवनदी तस्याः प्लवे पूरे गङ्गाप्रवाहे। स्वभावेन पद्मानि पीतकमलानि इत्युच्यन्ते । यथा स्नातस्यास्तुतौ - 'हंसांसा - हतपद्मरेणुकपिशक्षीरार्णवाम्भोभृतैः' इति । तानि च हेमसूरिणा नामग्राहं हैम्यामानीतानि न सन्ति यथा पराणि वर्णभेदोच्चारणप्रोक्तानि । यथा - 'रक्तोत्पलं कोकनदं श्वेते तु तत्र कुमुदं नीले. तु स्यादिन्दीवरम् । श्यामे तूत्पलं स्यात्कुवलयम्' इति । तस्मातेषां स्वभावात्पीतिमैवावसीयते । ततोऽत्रापि अम्बुजानि पीतपद्मानि अथ वा कनकमयानीत्यध्याहार्यम् । तेषां परागा रजांसि तैस्तत्संगमात्पिङ्गीभवन्पीतो जायमानः सितच्छदो राजहंस इव ॥
चतुष्कमधिरोहणात्क्रमविहारयोरन्तरा
व्यलोकत समाजवत्सुकृतभूमिभर्तुः प्रभुः । पुनर्मणिहिरण्मयं जिननिकेतनं तत्पुरः सुधाशवसुधाघरोल्लसित चूलिकाचैत्यवत् ॥ ५५ ॥
८१०
प्रभुहरविजयसूरिः अधिरोहणादध स्तन सोपानात्क्रमादुपरितनसोपानागमनात् सोपानक एव स्थितः । यत्र विहारयोर्मूलप्रासादप्राकारयोरन्तरा मध्ये चतुष्कं 'चौक' इति प्रसिद्धम् । प्रासादाङ्गणभूमिमित्यर्थः । व्यलोकत दृष्टवान् । किंवत् । समाजवत् । उत्प्रेक्ष्यते - सुकृतभूमिभर्तुः धर्माभिधानपार्थिवस्य समाजं सभामिव । पुनरन्यत्तत्पुरः तस्य चतुकस्याग्रे मणयः कर्केतनचन्द्रकान्तादिकास्तैर्युक्तं हिरण्मयं स्वर्णप्रधानं रक्तकाश्चनरचितं जिननिकेतनमृषभदेवप्रासादं व्यलोकत ददर्श । किंवत् । सुधाममृतमनन्तीति सुधाशा देवास्तेषां वसुधाधरः पर्वतो मेरुगिरिस्तस्योल्लसिता उल्लासं प्राप्ता शोभासंयुक्ता जाता या चूलिका शिखा अधित्यका वा तस्याश्चैत्यवत्सिद्धायतनमिव ॥ अथैकविंशतिकाव्यैर्मूलप्रासादवर्णनम् -
तमीश इव तारकैर्ग्रहपतिर्ग्रहौधैरिवासुरेश्वर इवासुरैरिव सुरैः सुरेशः पुनः । नरेन्द्र इव मानवैर्वृषभकेतनाईगृहं
गृहैर्लघुभिरर्हतां स्फुरति सर्वतोऽलंकृतम् ॥ १६ ॥