________________
१६ सर्गः] हीरसौभाग्यम् ।
(०७ बन्धि शिखरं समेत्य समागत्य । च पुनस्तस्य चरणस्यान्तिके सचिवो वीरधवलधराधवप्रधानो यो वस्तुपालस्तेनावतारितं रचनया नवीनं निष्पादितमुजयन्तं गिरिनारिगिरिप्रपञ्चं विलोक्य । 'प्रणीय नयनातिथिं स च कुमारदेवीभुवा' इत्यपि पाठः । तत्र च पुनः कुमारदेवीसाधो रासराजस्य पत्नी तस्यां भूरुत्पत्तिर्यस्य तादृशेन वस्तुपालेनावतारितं प्रतिरूपं कृतमुजयन्तं रैवताचलं नयनयोरतिथि प्राघुणिकं प्रणीय विधाय । लोचनगोचरीकृयेत्यर्थः । स सूरिस्तत्रोजयन्तावतारे वस्तुपालविहारे अर्हतः श्रीनेमिनाथप्रमुखान् जिने द्रान्नमति स्म ॥ ' ततः खरहताभिधां वसतिमभ्युपेत्य प्रभुः
खवासत इवागतं रचनयात्र नन्दीश्वरम् । सराजिमतिकां स्फुरचतुरिकां पुनर्नेमिनो
निभाल्य जिनपुंगवानिह तमामनंसीन्मुदा ॥ १८ ॥ प्रभुहीरसूरिः इह खरहतवसती मुदा हर्षेण जिनपुंगवान् तमामतिशयेन पञ्चाङ्गप्रणतिनमस्तवादिना अनसीनतवान् । किं कृत्वा । ततो रैवतावतार-वस्तुपालवसति-जिनपति-नमनानन्तरं खरहत इत्यभिधा यस्यास्तादृशीं वसतिं खरहतनाम्ना व्यवहारिणा खनाव कारितप्रासादमभ्युपेत्यागत्य । पुन: किं कृत्वा । नन्दीश्वरमभ्युपेत्य । उत्प्रेक्ष्यते-रचनया शिल्पघटनाविशेषेण कृत्वा इह शिखरवसतौ खवासतो निजवसनस्थानात् अष्टमद्वीपभूमेरागतं संप्राप्तं नन्दीश्वरमष्टमद्वीपलक्षणं द्विपं वा सत्प्रसादलक्षणमिव । पुनः किं कृत्वा । अत्र खरहतवसतौ नेमिनो द्वाविंशतितमतीर्थकृन्नेमिनाथस्य स्फुरन्ती रचनाचातुर्येण शोभमानां चतुरिकां 'चउरी' इति लोकप्रसिद्धां पाणिग्रहणस्थानं निभाल्य दृष्ट्वा । किंभूतां चतुरिकाम् । सराजिमतिका सह राजीमत्या वर्तते या सा सराजिमतिका । राजिमतीत्यत्र जिकारो इखोऽपि दृश्यते श्रेण्यामिव राजिः राजी । तथा च 'स्वामिन्मामुग्रसेनक्षितिपकुलभवां सानुरागां सुरूपां बालां त्यक्त्वा कथं त्वं बहुमनुजरतां मुक्तिनारीमरूपाम् । वृद्धां मूकामकुल्यां करपदरहितामीहसेऽशेषविच्छागित्युक्तो राजिमत्या यदुकुलतिलक: श्रेयसे सोऽस्तु नेमिः ॥' इति पूर्वसूरिप्रणीतस्तवे । तथा 'काप्यतः' इति सारखतसूत्रेण कापि परे हखे राजिमतिका ॥
स घोटकचतुष्किकादिमगवाक्षजैनालये ___ चकार च नमस्कृतिं चरणयोर्जिनोर्वीभृताम् । गिरेरिव विशेषके तिलकतोरणे श्रीजिना
न्पुनर्मुनिमतङ्गजो नवनवैः स्तवैरस्तवीत् ॥ ४९ ॥ स सूरिर्पोटकचतुष्किका इति आदौ नवमादिमं पदं यत्र तादृशो गवाक्ष इत्यभिधानो 'घोडाचोकी गउख' इति नाम्नि जैनालये तीर्थकृत्संबन्धिनि मन्दिरे । प्रासादे