SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। इत्यर्थः । च पुनर्जिनोवींभृतां जिनराजानां चरणयोः पादयोः नमस्कृतिं प्रणाम चकार । पुनरपि मुनिमतङ्गज: साधुसिन्धुरः तिलकतोरणे 'तिलकुंतोरण' इति नाम्नि विहारे श्रीजिनान् श्रीमत्तीर्थकृतो नवनवैनूतनैनूतनैः तात्कालिकैः खकृतैः स्तवैः स्तोत्रैः अस्तवीत्तुष्टाव । उत्प्रेक्ष्यते-गिरेः श्रीशत्रुजयादेस्तिलके विशेषके इव ॥ जिनाधिपसभाजनाप्लवविधानबद्धादरा. रविन्दनयनाजनैः सममलंकृतं सर्वतः । जलाधिसुरयौवतैः प्रभुनिनंसयेव स्फुटी भवद्भिरमुना न्यभाल्यत पतङ्गकुण्डं ततः ॥ ५० ॥ ततस्तत्र तिलकतोरणे जिननमनानन्तरममुना सूरीन्द्रेण पतङ्गकुण्डं सूर्यकुण्डम् । कुण्डशब्दस्त्रिलिङ्गः । 'पेटो मठः कुण्डनीड-' इति लिङ्गानुशासने । न्यभाल्यत ददृशें । किंभूतम् । सर्वतः सर्वेष्वपि प्रदेशेषु सममेव एककालं समलंकृतं सम्यकप्रकारेण शोभितम् । कैः । जिनाधिपानामृषभदेवतीर्थकृता सभाजनार्थ पूजाकृते । 'सभाजने पश्यति विस्मिते सा सभाजनं तत्र ससर्ज तेषाम्' इति नैषधे'। 'तेषां देवानां सभाजनं पूजां ससर्ज चकार' इति तद्वृत्तिः । यः आप्लवः स्नानम् । 'स्नानं सवनमाप्लत्रः' इति हैम्याम् । तस्य विधाने करणे बद्ध आदरो बहुमानं यैस्तादृशैररविन्दनयनारूपैर्जनैः । स्त्रीसमूहैरित्यर्थः । उत्प्रेक्ष्यते-प्रभोहीरविजयसूरेनिनंसयानन्तुमिच्छया स्फुटीभवद्भिः प्रकटैर्जायमानैः जलाधिसुराणां सलिलाधिष्ठायकदेवानां जलदेवतानां यौवतैर्युवतीसमूहैरिव ॥ इति द्वितीयप्राकारप्रासादेषु देववन्दनम् ॥ विजित्य कलिना समं दुरितदुर्धरद्वेषिणः ___ सुखं स्थितिमुपेयुषः शिखरिमण्डलाखण्डले । ससालमणिमन्दिरं किमिह धर्मभूमीभुजो ___ न्यभालयदयं पुरः प्रवरवप्रवेश्मार्हतः ॥५१॥ अयं हीरविजयसूरिः पुरोऽग्रतः अर्हतः ऋषभदेवतीर्थकृतः सत्कः प्रवरः प्रकृष्टः वप्रः प्राकारो यत्र तादृग्वेश्म भवनं ससालं युगादिजिनविहारं न्यभालयत्पश्यति स्म । उत्प्रेक्ष्यते---इहास्मिन् शिखरिणां सर्वपर्वतानां मण्डलानां समूहानां मध्ये आखण्डल: शक इवाखण्डले सुखं सातं यथा स्यात्तथा स्थिति निवासलक्षणामुपेयुषः प्राप्तवतो धर्मनानो भूमिभुजः भूपालस्य सह सालेन प्राकारेण वर्तते यत्तत्ससालं तादृशं मणिम- - न्दिरं किं रत्नगेहमिव सुखं स्थितस्य। किं कृत्वा । कलिना कलिकालेन समं सार्ध दुरितानि पापान्येव दुर्धरानुत्कटान् दुष्टत्वात् द्वेषिणः सपत्नान् विजित्य सर्वात्मना पराभूय ॥ स्फुरत्करतरङ्गितां स्फटिककल्पितारोहणा वलीमयममार्गयद्वरणगोपुराभ्यन्तरे । . "अजा
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy