________________
काव्यमाला।
विलोक्य च कपर्दिनं सकलसंघविघ्नच्छिदं
परंगिरिमिवाझुदादिमविभुं स्तवैरस्तवीत् ॥ १५ ॥ स सूरिः टोटरा इत्यभिधा नाम यस्य तादृशे विहारे प्रासादे तीर्थेश्वरं जिनमवन्दत नमस्कुरुते स्म । पुनरन्यत्र प्रदेशे मौल्हा इत्यभिधा नाम यस्यास्वादशी वसति चैत्यं समेत्य प्रभु परमेश्वरमबीमजदुपास्ते स्म । च पुनः स सूरिः। उत्प्रेक्ष्यते-परमन्यं गिरि पर्वतमिव तादृशमर्बुदनामानमादिमविभुमादिनाथं स्तवैः स्तोत्रैः कृत्वा अस्तवीत् स्तौति . स्म। किं कृत्वा । सकलानां विविधदेशागतत्वेन बाहुल्यात्समस्तानां संघानां यात्रिकलो. कानां विघ्नानामन्तरायाणां छिदं विघातकं कपर्दिनामानं शत्रुजयस्यादिदेवस्य चाधिधायकं यक्षं विलोक्य दृग्गोचरीकृत्य ॥ इति बाह्यप्राकारप्रासादेषु सकलजिनप्रणमनम् ॥ . इति मरुदेवीशिखरवर्णनम् ॥
सरस्यनुपमाभिधे शिखरिशेखरे मानसा__ हये तुहिनमेदिनीधर इव क्षिपन्नक्षिणी । ततः समधिरूढवान्स शिखरं स्वरारोहणा- .
भिधं धृतमिवामुना स्वरधिरोहणायाङ्गिनाम् ॥.४६ ॥ ततो मरुदेवीशिखरादवतरणानन्तरं सूरिराजहंसः खरधिरोहणाभिधमर्थात्खर्गारोहणं नाम । अथ वा अक्षरच्युतकप्रदानालंकारेणाधिकारोऽपनीयते गकारश्च प्रदीयते तदा च खर्गारोहणाभिधानं भृङ्गं समधिरूढवान् चढति स्म । उत्प्रेक्ष्यते-अङ्गिनां भविकानां स्वरधिरोहणाय खगें अधिरोहणार्थममुना शत्रुजयगिरिमा धृतमिव । सूरिः किं कुर्वन् । शिखरिणां सर्वपर्वतानां शेखरे अवतंसभूते शिखरिणो विमलादेः शेखरे वा तेजःपालपत्न्या अनुपमदेव्या खानिते कारिते तदभिधेये वा उपमनानि सरसि तटाके भक्षिणी निजनयने क्षिपन् किरन् । पश्यनित्यर्थः । कस्मिन्निव । मानसाहये इव । यथा तुहिनभूधरे हिमाचले किमपि शिखरमारोहन हंसो मानसमित्याह्वयं नाम यस्यैतावता मानसनानि सरसि तटाके दृशो क्षिपति । हिमाचलोपरि मानससरसः सद्भावः प्रोकोऽस्ति । यथा चम्पूकथायाम्-'सदा हंसाकुलम्' इति प्राक् प्रोकमस्ति ॥
समेत्य मणिसेतुना वृषभकूटमभ्रंकषं
विवेश वरणान्तरे किमपवर्गपूर्गोपुरे । विलोक्य स तदन्तिके सचिववस्तुपालेन चो
जयन्तमवतारितं प्रणमति स्म तत्रातः ॥ १७ ॥ स होरसूरिः वरणस्यान्तरे मध्यतनप्राकारमध्ये विवेश प्रविष्टवान् । उत्प्रेक्ष्यतेअपवर्गो मोक्षः स एव पूनगरी तस्या गोपुरं प्रतोलीमिव प्रविशति स्म । किं कृत्वा । मणिसेतुना विविधरननिर्मापितपद्यया अभ्रंकषं गगनमुल्लिखत् वृषभकूटं मूलप्रासादसं