________________
८०१
.१६ सर्गः] हीरसौभाग्यम् ।
यदीक्षणजितो मृगः श्रित इवाङ्ककायः क्रम ___ मृगध्वजजिनं ततः प्रमुदितः स तं नेमिवान् । जिनेन्द्रमजितं पुनर्नजितमान्तरैरिमिः
कदाचिदपि पद्मिनीप्रियतमस्तमित्रैरिव ॥ १३ ॥ स मूरिस्ततो मरुदेवीनमस्कृतेरनन्तरं तं शान्तिकारकत्वेन सर्वत्रापि प्रसिद्ध मृगो • हरिणो ध्वजश्चिदं यस्य तादृशं जिनं षोडशतीर्थनाथं श्रीशान्तिनाथ नेमिवान् प्रणमति
स्म । अयं कसोः प्रत्ययस्य प्रयोगः । स च णबादिवत् ज्ञेयः । किंभूतः सूरिः । प्रमुदितो हृष्टमानसः । यत्तदोनित्यसंबन्धात् यस्य श्रीशान्तिनाथस्य क्रमं चरणं मृग: सारङ्गः श्रितः समेत्य सेवते स्म । उत्प्रेक्ष्यते यदीक्षणाभ्यां यस्य नयनाभ्यां जितः श्रिया पराभूत इव अङ्कोऽभिज्ञानमेव कायो वपुर्यस्य तादृशः सन् श्रित इव । पुनरपरविहारे अजितं द्वितीयं जिनेन्द्रं परमेष्टिनं ने मिवान् प्रणनाम । किंभूतम् । नेति निषेधे । जितं पराभूतं न जितमर्जितम् ।। कैः । आन्तरैरन्तरङ्गः कर्माद्यैर्भाववैरिभिः । कथम् । कदाचिदपि कस्मिन्नपि काले प्रस्तावे। कैरिव । तमित्रैरिव । यथा अन्धकारैः कदाचिदपि पद्मिनीप्रियतमो भानुमान जीयते ॥
- स सिद्धगृहवजिनं प्रणमति स्म पृथ्वीधर.. प्रणीतजिनमन्दिरे मुनिपुरंदरः संमदात् । प्रधान इव पर्षदं क्षितिपतिं स छीपाभिषां
समेत्य वसति पुनर्जिनसुधांशुमाराधयत् ॥ ४ ॥ : शत्रुजयोजयन्तादितीर्थानां करमोचयिता मुनीनां तपागच्छश्रमणानां पुरंदरः अ. तिशायिलक्ष्मीवत्वेन वासवसदृशः सूरिः संमदादानन्दात् पृथ्वीधरामिधेन मण्डपाचलपातिसा हिमन्त्रिणा पेथडदेसाधुना निर्मापिते जिनमन्दिरे प्रासादे जिनं भगवन्तं प्रण. मति स्म । किंवत् । सिद्धगृहवत् । यथा कश्चिद्विद्याधरो लब्धिमान्वा साधुः सिद्धायतने शाश्वत तीर्थकरं नमस्करोति । पुनस्तस्मादन्यत्र स्थाने छीपा इत्यभिधा नाम यस्य तादृशी वसतिम् । अत्र तीर्यादौ वसतिशब्देन केवलं चैत्यमेव प्रतिपाद्यते न गृहादि प्रासादं समेत्य जिनांशुसुधांशुमहद्भट्टारकमाराधयत् भजते स्म । 'वरिवस्यत्यन्वास्ते जुषते शुश्रूषतेऽनुकूलयति । आरामोत्याराध्यत्याराधयतीति सेवायाम् ॥' इति क्रियाकलापे । क इव । प्रधान इव । यथा सचिवः पर्षदं सभा समागत्य क्षितिपतिं खखामिनृपतिमाराधयति ॥
अवन्दत स टोटराभिधविहारतीर्थेश्वरं
पुनः प्रभुमबीभजद्वसतिमेत्य मौल्हाभिधाम् ।