________________
८.४
काव्यमाला।
..
विवेश वशिशर्वरीवरयिता नृणां श्रेणिभिः ___ समं वरणगोपुरं पुरमिवावनीवासवः । स धर्मधरणीपतेरिव निवासवेश्मावली
व्यलोकत पुरःस्फुरजिननिकेतपकिं पुनः ॥ ११ ॥ स वशिनां संयमिनां मध्ये शर्व निशाया वरयिता भर्ता चन्द्रो हीरविजयसूरितॄणां यात्रिकसंघलोकानां श्रेणिभिः समं वरणं शत्रुजवशिखरबाह्यप्राकारस्तस्य गोपुरं प्रतोली विवेश प्रविष्टवान् । क इव । अवनीवासव इव । यथा विजयी राजा दिग्जैत्रयात्रां प्रणीय पुरं खां राजधानी नगरी प्रविशति । पुनरन्यार्थोपन्यासे । स हीरसूरिः पुरोऽप्रे वरणप्रवेशानन्तरमेवाग्रत एव स्फुरन्ती प्रकटीभवन्ती दीप्यमानां वा जिनानां तीर्थकृतां निकेतानां मन्दिराणाम् । प्रासादाना मित्यर्थः । पति मालिकां व्यलोकत निरीक्ष स्म । उत्प्रेक्ष्यते-धर्मनामा यो घरणीपतिस्तस्य निवासार्थ वासकृते वेदमावली भवन. राजीमिव ॥ इति शत्रुजयतीर्ये प्रथमप्राकारे प्रवेशः ॥ .
मृगेन्द्रशरमाङ्कुशाः परिभवन्ति मां निर्दया
इमां जहि जगत्पतेर्जननि दुःखितामुल्बणाम् । इतीव गदितुं गजो भजति यानदम्भेन यां
वृषध्वजजिनप्रसूः प्रथममेव नेमेऽमुना ॥ ४२ ॥ अमुना सूरिचन्द्रेण प्रथमप्राकारप्रवेशे पूर्वमेव सातात्कालिकोत्पत्रकेवलज्ञानेन चतुर्निर्मितसमवसरणमध्ये सिंहासनमषितस्थुषा चतुर्विधसंघस्थापनकृते भरतभूपागमनं प्रतीक्षमाणेन श्रीऋषभदेवेन तीर्थस्थापनसमयात्प्राक् सिद्धिगामुकत्वेन अतीर्थसिद्धत्वेन च अस्यामवसर्पिण्यां भरतक्षेत्रे प्रथमसिद्धत्वेन वा प्रसिद्धा वृषो वृषभो ध्वजश्चिदमूरुलाञ्छनं यस्य स युगादिदेवः स एव जिनः प्रथमतीर्थकृत्तस्य प्रसूर्माता मरुदेवा नेमे नमस्कृता प्रणता । सा का । यां मरुदेवीं वानदम्भेन वाहनच्छलेन गजो हस्ती भजते सेवते । उत्प्रेक्ष्यते-इति गदितुं कथयितुमिव । इति किम् । हे जगत्पतेस्त्रैलोक्यनायकस्य जननिर्माता निर्दया निर्याता दया करुणा येभ्यस्तादृशा मृगेन्द्राः केसरिणः तथा शरभा अष्टापदाः । 'हर्यक्षः केसरी इभारिः' तथा 'शरभः कुञ्जरारातिः' इदं द्वयमपि हैम्याम् । तथा शिरति घातदायकत्वादशाः मृणयः एतत्प्रमुखा मृगयादिधायिव्याधभूपादिकाः मां परिभवन्ति यावद्गजजातिमपि निम्नन्ति । इमामुल्वणामुत्कटां घातनलक्षणां दुःखितां दुःखिनो भावं जहि विनाशय निवारय । हन्तेर्धातोहिविषये जहिरादेशः । यदुक्तं सारखते-'जयधिशााधेः, हन्तेजहिशब्दोऽस्तेरेधिः शास्तेः शाधिशब्दो निपात्यते हि विषये' इति वकुमिव ॥