________________
- १९ सर्गः] - होरसौभाग्यम् ।
स्वचैत्यचटुलध्वजोपधिकरैरिवाकारय
न्प्रभञ्जननमदुमैः किमतिगौरवं कल्पयन् । मनीषिशुकभाषितैरिव सुखागमं प्रश्नय
ञ्झरझरमुदश्रुमाग्गिरिरभूद्गुरोरागमे॥ ३९ ॥ गुरोः सूरीन्द्रस्य आगमे गिरिविमलाचल: अद्वैतमोदप्रादुर्भावादेवंविधः अभूभूव । किंभूतः । परन्तो निष्पतन्तो ये झरा निर्झरवारिधारास्त एव मुदणि हर्षबाष्पान् भजतीति । उत्प्रेक्ष्यते-खस्यात्मनश्चैत्यानां परमेश्वरप्रासादानां चटुलाः पवनान्दोलनविलोला ये ध्वजा वैजयन्यस्त एवोपधिः कपटं येषां तादृशैः करैर्हस्तैः किमाकारयन्नालयन्निव । पुनरुत्प्रेक्ष्यते-प्रभअनेन वायुवेगेन नमन्तो नम्रीभवन्तो ये द्रुमाः पादपास्तैः कृत्वा अतिगौरवमतिशायिनी भकिं नमनचरणलगनलक्षणां कल्पयन् कुर्वनिव । 'अनुतिष्ठति विदधाति रचयति कल्पयति चेति करणार्थे' इति क्रियाकलापे । पुनरु. प्रेक्ष्यते-मनीषिणां विविधशास्त्राध्येतृणां शुकानां कीराणां भाषितैरुक्तिभिर्वचनचातुरीभिः कृत्वा । सुखागमं यूयमत्र सुखेन समाधिना चागता इत्यादि स्वागतप्रश्नयन्निव पृच्छत्रिव । अन्यो महात्मा कमपि खाभीष्टमभ्यागच्छन्तं विभाव्य चञ्चलकरैराकारयति। तथा नमनपदलगनादिभिर्गौरवं कल्पयति । तथा मधुरया गिरा सुखागमनप्रश्नं कुरुते । तया हर्षाश्रूण्यपि भजते ॥ इति गुरोविमलाचलपट्यारोहणे गिरिमेखलावर्णनम् ॥
क्रमेण धरणीभृतः समधिगत्य सोऽधित्यकां - ददर्श वशिनां शशी चरणमम्बरालम्बिनम् ।
.धृतं विमलभूभृतोद्भटमवाभिमातेर्भया
- जनं स्वशरणागतं किमिह रक्षितुं काश्ता ॥ ४०॥ .. स वशिनां वशात्मनां जितेन्द्रियाणां मध्ये शमाभृतैरतिशीतलत्वेन विश्वाहादकत्वेन च शशी । अत्र षष्ठया अलुक्समासे एकमपि पदं प्रणीयते वा । सूरीन्दः अम्बरमाकाशमालम्बते संश्रयत्यालिङ्गति इत्येवंशीलं वरणप्राकारं बाह्यसालं ददर्श पश्यति स्म । किं कृत्वा । क्रमेण प्रथमद्वितीयतृतीयादिमेखलारोहणपरिपाट्या धरणीभृतः श्रीशत्रुजयादेरपित्यकामूर्वभूमी समधिगत्य प्राप्य । 'अधिगत्य जगत्यधीश्वरादथ मुक्ति पुरुषोत्त. मात्ततः' इति नैषधे । 'अधिगत्य आसाद्य' इति तदृत्तिः । उत्प्रेक्ष्यते-उद्भटः अत्युत्कटो वारयितुमशक्यो यो भवः संसारः स एवाभिमातिः शत्रुस्तस्य भयाद्रीतेः खस्यात्मनः शरणे आगतं संप्राप्तं जनं भविकलोकं रक्षितुं त्रातुं पालयितुं निर्भयं कर्तु काइता वाञ्छता विमलभूभृता शत्रुजयाद्रिणा किमु धृतं कृतं वा ॥