________________
१६ सर्गः] हीरसौभाग्यम् ।
७९९ मार्गे वा वर्तमाना याः प्रपाः पानीयशालास्तासु यात्रिकैः श्रीशत्रुजययात्राकारकैलोकैरमृतस्य पीयूषस्य पानवद्धीतिरिव । धीतिः पाने' इति हैम्याम् । 'धेट् पाने' । धयनं धीतिरिति व्युत्पत्तिः । अथ वा मुक्तिरसाखादवत् । 'अमृतं मुक्तिपानीथपीयूषेषु' इत्यनेकार्थः । आतृप्तितस्तृप्तिं मर्यादीकृत्य । आङादियोगे पञ्चमी। सितोपलाभिः शर्कराभिः कलितं करम्बितं बहुव्याप्तं तोयं पानीयमपीयत पीतम् । पुनहीरविजयसूरिणा तु शमसुधा उपशान्तरसनानी सुधा समाखाद्यत सम्यक् पीयते स्म । किंभूता शमसुधा । अवनिधरे शत्रुजयशैले यदधिरोहणं चढनं तेनोदयत्प्रकटीभवन् यः प्रमो. दाभिधरसो हर्षोत्कर्षः आनन्दातिरेकनिस्पन्दस्तेन मिश्रिता करम्बिता व्याप्ता ॥
. स्फुरत्खरकरोदुरद्युतिवितानसंतापिता. अनाञ्जनितनिझरोत्करजलाप्लवा वायवः ।
भवातिविधुरीकृतानिव महात्मनां संगमाः
· सृज़न्ति शिशिरान्गिरौ क्षणमपास्य तापं तनौ ॥ ३२॥ गिरौ पुण्डरीकपर्वते वायवः पवनाः जनान्यात्रिकलोकान् क्षणं क्षणमात्रं शिशिरान् शीतलान् सृजन्ति कुर्वन्ति । किं कृत्वा । निमेषमानं च तनौ शरीरे तापं धर्ममपास्य निवार्य । जनान् किंभूतान् । स्फुरन्दीप्यमानस्तीव्र तपन्वा खरकरचण्डरिमः सूर्यस्तस्योद्धराणामुत्कटानां द्युतीनां कान्तीनां वितानेन समूहेन संतापितान्पीडितान् अतितप्तीकृतान् । किंभूता वायवः । जनितो निर्मितो निर्झराणां शिखरान्तरनिःसरत्पयःप्रवाहाणामुत्कराणां संदोहानां जलेषु पानीयेषु आप्तवः स्नानं यैस्ते । के इव शिशिरय. न्ति । संगमा इव। यथा महात्मनां साधूनां संगतयः भवस्य संसारस्यातिर्विविधाधिव्या
धिदुःखपीडा तया ताभिर्बहुत्वं वा विधुरीकृतान् व्याकुलान् विहितान् मविकान् संसा· रासारतोद्भावनविधिधर्मोपदेशप्रदानादिना शीतलयन्ति ॥
झरझरपयःप्लवप्रसरशीतलोर्वीतले
सहस्ररुचिसंचरद्रुचिच्यस्य दुःसंचरे । विलासिकदलीगृहे भुजगगुल्मिनीमण्डपे
स्फुरद्विविधविष्टरे पृथुलशैलतल्पाङ्किते ॥ ३३ ॥ स्मितद्रुमगलन्मणीचकचयोपचाराञ्चिते
द्विरेफरवगानितानिललुलल्लताताण्डवे जनान्भवनवद्वने श्रमनुदेऽतिधर्माम्बुभिः
सबिन्दुकितवक्षसो यति लोलशाखाशयैः ॥ ३४ ॥ शत्रुजयाचल: जनान् यात्रार्थमधित्यकामधिरोहते लोकान् लोलैश्चपलैः शाखारूपैः
.. विला