________________
काव्यमाला।
७९८ समीयुषि सति संप्राप्तवति । भिते । निशां रात्रीणां द्विषि वैरिणि तद्विनाशकत्वात् । उत्प्रेक्ष्यते--अमुना सूरीन्द्रेण सह सार्व विमलशैलस्य शत्रुजयाद्रेयात्रां विधित्सतीव ।।
युग्मम् ॥
क्रमादचलचक्रिणः श्रमणपुंगवः पद्यया
रुरोह भवसागरं किमु तितीर्षुभिः क्लृप्तया । निबद्धमिव शृङ्खलां हृदयदन्तिनो मेखलां
सुपर्वतरुनन्दनामिव सुमेरुभूमीभृतः ॥ ३० ॥ श्रमणपुंगवः सूरीन्द्रः क्रमादनुक्रमेण पद्यया सेतुना प्रस्तरनिबद्धमार्गेण 'पाज' . इति प्रसिद्धेन कृत्वा अचलचक्रिणो गिरीन्द्रस्य । सर्वतीर्थाधिराजत्वात्पर्वतसार्वभौमत्वम्। तथा जैनमते प्रातः प्रतिक्रमणप्रान्तप्रत्याख्यानकरणसमयादौ 'सकलतीर्थाधिराजश्री. • शत्रुजयाय नमः' इत्युच्चार्य प्रत्याख्यानं क्रियते इति । मेखलं मध्यभागमारुरोहाध्यासामास । किंभूतया पद्यया । कुप्तया रचितया । उत्प्रेक्ष्यते-भवसागरं संसारसमुद्र तितीषुभिस्तरीतुमिच्छुभिरिव कृतया रामचन्द्रादिवत्सेतुना समुद्रः समुत्तीर्यते । किंभूतां मेखलाम् । हृदयानि मनांसि । 'हृन्चेतो हृदयं चित्तम्,' तथा 'स्तनान्तरं हृदृदयम्' इति द्वयमपि हैम्याम् । अत एवानेकार्थ:-'हृदयं मनो वक्षश्च' । तान्येवोन्मत्तत्वाद्दन्तिनः करिण: तत्रिबर्द्ध नियन्त्रयितुं शृङ्खलां निगडमिव । शृङ्खलशब्दस्त्रिलिङ्गः । 'शृङ्खला निगडोऽन्दुकः' इति हैम्याम् । तथा 'नालप्रणालपटलार्गलशृङ्खलकंदलाः' इति लिङ्गानुशासने खतनिलिङ्गे । तथा मेखलां मुञ्जदोरिकामिव । दोरिकया हि कारणो नियध्यन्ते । यथा चम्पूकथायाम्-'ब्राझीव दौर्जनी समेखला समेमित्रे । अमित्रे च समभावभाजि साधौ विषये वेला मत्सरवती दौर्जनी श्रेणी ब्राह्मी तु सह मेखलया मौञ्जीदोरिकया वर्तते या' इति चम्पूटिप्पन के । इति गर्भितोत्प्रेक्षा । पुनः किंभूताम् । मु शोभनानि पर्वाणि शाखादिनिर्गमस्थानानि येषां येषु वा तादृशैक्षैस्तरुभिः नन्दयति प्रीणाति समृद्धि प्राप्नोतीति वा । उत्प्रेक्ष्यते-सुमेरुभूमीभृतो मन्दरमहीधरस्य मेखलां नितम्बमिव । किंभूताम् । सुपर्वतरुभिः कल्पवृक्षैनन्दयति समृद्धि प्राप्नोति । अथ वा कल्पद्रुकलितनन्दनवती । एतावता प्रथममेखलामारूढवान् ॥ इति पद्यया प्रथममेख. लारोहणम् ॥
प्रपासु गिरिपद्धतेस्मृतपानवद्यात्रिकै
रपीयत सितोपलाकलिततोयमातृप्तितः। पुनर्मुनिमहीन्दुनावनिधराधिरोहोदय
त्प्रमोदरसमिश्रिता शमसुधा तदाखाद्यत ॥ ३१ ॥ तदा शत्रुजयप्रथममेखलाधिरोहणसमये गिरेविमलाचलस्य पद्धतेर्मार्गस्य पद्धतौ