________________
१६ सर्गः] हीरसौभाग्यम् ।
७९७ विनिर्मितिभिर्विधानैः कृत्वा निखिलां समस्तां चतुर्यामवती निशां रात्रीं निनायातिचकाम । यथा स्वधर्मानुष्ठानैस्तथा । पुनः काभिः । लसन्तीभिश्चेतोहराभिगीतिभिर्गानः । कासाम् । उत्पलदृशां कुवलयलोचनानां तरुणीनाम् । उत्प्रेक्ष्यते-हरेरिन्द्रस्य मृगशामिन्द्राणीनामिव । पुनः कैः । मुदितैर्यथेप्सितदानाधिगमादानन्दमेदुरैर्नाव्यकृद्भिर्नर्तकैर्घ. टितैर्निर्मितैस्ताण्डवानां नाटकानामाडम्बरैः ॥ इति शत्रुजयान्तिकशिवप्रासादे वासका. वस्थानम् ॥
गते तमसि तद्विरेरिव निरीक्षणात्तत्क्षणा- खगैर्गुरुजयारवे किमु कृतेऽथ सांराविणे । समीयुषि खरविषि द्विषि निशां नभोमण्डले
विधित्सति सहामुना विमलशैलयात्रामिव ॥ २८ ॥ सुधाशनपथातिथिं शिवनिकेतनिःश्रेणिका
मिव व्रतिशतक्रतुर्विमलशैलपद्यां ततः । सबालवरवर्णिनीनिवहनैकतौर्यत्रिका
नुयातजनसंयुतः समधिरोढुमारब्धवान् ॥ २९ ॥ स व्रतिशतक्रतुहीरविजयसूरीन्द्रः विमलशैलस्य शत्रुजयाद्रेः पद्यां सेतुं लोकप्रसिद्ध्या 'पाज' इति समधिरोढुमारब्धवान् प्रारेभे । किंभूतः सः । सह बालाः कुमाराः कुमारिकाश्च तैस्ताभिश्च । 'सरूपाणामेकशेषे' । वर्तन्ते यास्तादृश्यो वरवर्णिन्यः प्रधानस्त्रियः। तीर्थयात्रादिधर्मकारकत्वात् प्राधान्यम् । अथवा उत्तमा स्त्री जात्या गुणैर्वा । 'उत्तमा वरवर्णिनी' इत्यमरः । तासां निवहाः प्रकराः । तथा नैकानि बहूनि अनेकजातीयानि वा तौर्यत्रिकाणि गीतनृत्यवाद्यानां त्रिकाणि तैरनुयाताः सहिता ये जना यात्रिकसंघलोकास्तैः संयतः परिकलितः । किंभूतां विमलाचलपद्याम् । सुधाशनानां देवानां पन्था मार्गों गगनं तस्यातिथिं प्राघुणिकीम् । गगनावगाहिनी मित्यर्थः । उत्प्रेक्ष्यते-शिवनिकेतनिःश्रे. णिका मिव मोक्षप्रासादे अधिरोहणार्थमधिरोहणिकामिव 'नीसरणी' इति लोकप्रसिद्धाम् । कस्मिन् सति । तत्क्षणात्तत्कालात् शीघ्रमेव तमसि अन्धकारे गते सति लोकानिःसते सति । उत्प्रेक्ष्यते-तद्गिरेः स चासौ विमलाचलनामा गिरिः पर्वतश्च तस्य निरीक्षणाद्दर्शनादिव पापे याते । 'तमोऽज्ञानेऽन्धकारेऽधे' इत्यनेकार्थः । अथ पश्चात्तमोगमनानन्तरं खगैः प्रात:प्रबुद्धविहंगमैः सांराविणे मिश्रास्पष्टशब्दे कृते सति । अथ वा समन्ताद्वैः । यदुक्तं नैषधे-'तटतरुवेगश्रेणीसांराविणैरिव सांप्रतं सरसि विगलन्निद्रामुद्राजनिष्ट सरोजिनी' इति । 'संपूर्वाद्रौतेरभिविधौ भावे इनुण । तस्मादिनुणः सांराविणानि तैः' इति तद्वत्तौ साधना । उत्प्रेक्ष्यते-गुरोहीरविजयसूरेर्जयारवे विहिते सति किमु पुनः कस्मिन् सति खरविषि भास्करे नभोमण्डले गगनाङ्गणे