________________
७९६
काव्यमाला।
लोचनदलैर्नगपुंगवं समग्रगिरिगरिष्ठं शत्रुजयं निपीय सादरमवलोक्य भविककुञ्जरैः प्रधानभव्यजनैः भुवि पृथिव्यां यन्निवृतिरलम्भि संप्राप्ता । किंभूतैः । भवे संसारे स्थितैर्वसद्भिरपि । संसारस्थैहि कदापि निर्वृति प्यते । पुनः किंभूतैः । तनूलतां शरी. रयष्टिमालम्बन्ते श्रयन्ते इत्येवंशीलैरपि । शरीरं विद्भिरपि मुक्तिों लभ्यते । कैरिव । व्यपेतभवविग्रहैरिव । यथा व्यपेतो निष्ठितो भवः संसारः गतोभवः शिवो वा तथा विग्रहः शरीरं संग्रामो वा येभ्यस्तादृशैमिथ्यादृशां सिद्धेरभावः तथा समग्राणां समस्तानां लोकानां त्रयाणां सप्तानां चतुर्दशानां वा भुवनानामग्रे उपरितनभागे गच्छन्ति तिष्ठन्तीति कृत्वा तादृशैः । 'लो अग्गमुवगगयाणम्' इति वचनासिद्धरिव निर्वृतिर्लब्धा । 'निर्वृतिः शिवशर्मणोः' इत्यनेकार्थः । इति जगति तत्र निर्वृतिप्राप्तिप्रकारे महद्गुरु चित्रमाश्चर्य वर्तते ॥ ..
ततः श्रमणशर्वरीपतिरुपत्यकायां गिरे
गिरीशसदनान्तरे सह महेश्वरैर्भावुकैः । चरन्नमृतपत्तनं किमतिदूरभावात्पथो
निशि न्यवसदन्तराप्रमितसार्थसार्थेशवत् ॥ २६ ॥ ततस्तलहट्टिकागमनानन्तरं श्रमणशर्वरीपतिः साधुसुधांशुः सूरीन्द्रो गिरेः शत्रुजयाद्ररुपत्यकायामधोभूमिभागप्रदेशे अन्तरा पादलिप्तपुरशत्रुजयाद्रिमार्गमध्ये यद्गिरीशस्य शंभोः सदनं गृहं शिवप्रासादस्तस्यान्तरं मध्यं तत्र निशि रात्रौ न्यवसन्निवासं कृतवान् वासकं वसति स्म । तिष्ठति स्मेत्यर्थः । कथम्। सह । कैः । महेश्वरैर्भावुकैर्महेभ्यः श्राद्धैः जिनश्रावकैः । अथ च शिवसदने महेश्वरजनैः कश्चिद्वसति। उत्प्रेक्ष्यते-अमृतपत्तनं मुक्तिनामपुटभेदनं प्रति चरन् गच्छन् पथो मार्गस्यातिशयेन दूरभावाद्दवीयस्तया किमन्तरा निवसति स्म । किंवत् । अप्रतिमसार्थसार्थेशवत् । यथा अप्रमितः प्रमागरहितः सार्थः मनुष्यसंघो यस्य तादृशः सार्थपतिः किमपि नगरं गन्तुमिच्छन्मार्गस्यातिदूरत्वेन अन्तरा मार्गमध्ये एव निशायां निवसति ॥
हरेर्मुगदृशामिवोत्पलदृशां लसद्रीतिभिः __पुनर्मुदितनाट्यकृद्धटितताण्डवाडम्बरैः। निनाय निखिलां निशां वशिशशी स धर्मक्रिया
विनिर्मितिभिराश्रये रजनिजानिचूडामणेः ॥ २७ ॥ स वशिशशी हीरविजयसूरिचन्द्रः रजनी रात्री जाया पनी यस्य । 'जायाया निङ्' इति निप्रत्ययः । 'लोपो व्योर्वलि' इति यकारस्य लोपः । रजनिजानिरिति सिद्धम् । रजनिजानिश्चन्द्रः चूडामणिः शिरोरत्नं यस्य । एतावता ईश्वरस्तस्याश्रये वसतो. शंकरप्रासादे धर्मस्य खाचारलक्षणस्य क्रिया अनुष्ठानं सम्यक्तया प्रतिक्रमणादिकरणं तस्य