________________
काव्यमाला।
शयैः हस्तैर्वने खनिकुञ्ज तयत्याकारयतीव । इति गर्भितोत्प्रेक्षा । किंभूतान् जनान् । अतिधर्माम्बुभिः अत्यभ्यधिकप्रस्वेदसलिलैबिन्दुकितवक्षसः बिन्दुभिः श्रमोदककणगणेयुक्तं जातम् । खार्थे के जातार्थे इतप्रत्यये । बिन्दुकितं वक्षो हृदयं येषाम् । अत एव कस्मै हेतवे। श्रमनुदे मार्गक्लमापनोदाय । 'खेदबिन्दुकितनासिकाशिखाम्' इति नैषधे । किंवत् । भवनवत् । यथा कश्चित्सुजनः कमपि मार्गक्लमप्राप्तं निजनिकेतने समाह्वयति । किंभूते वने । झरन्तो निःसरन्तो ये झरा निर्झरास्तेषां पयःप्लवानां वारिपूराणां प्रसरैविस्तारैः कृत्वा शीतलं शिशिरीभूतमुवातलं भूमीमध्यं यस्य । पुन: किंभूते । सहस्र- . रुचेः सूर्यस्य संचरन्तीनामितस्ततो दशदिक्षु प्रसरन्तीनां रुचीनां कान्तीनां वितानं समुदायस्तस्य दुःखेन संचरः प्रसरणं प्रवेशो वा यत्र । पुनः किंभूते । विलासिनः शोभनशीलाः कदलीगृहा रम्भाभवनानि यस्मिन् । पुनः किंभूते । भुजगगुल्मिनीना . नागवल्लीनां ताम्बूलवल्लीनाम् । 'ताम्बूलवल्ली ताम्बूली नागपर्यायवळ्यपि' इति हैम्याम् । मण्डपा यस्मिन् । पुनः किंभूते । स्फुरन्तो विकसन्तः प्रकटीभवन्तो वा दृश्यमाना वा विविधा विष्टरा वृक्षा आसनानि वा यस्मिन् । 'क्षितिरुहः कारस्करो विष्टर', तथा 'विष्टरः पीठमासनम्' इति द्वयमपि हैम्याम् । विष्टरः पुंसि । पुनः किंभूते । पृथुलानि विस्तीर्णानि शैलानि शिलासमूहा वा । यथा नातस्यास्तुतौ 'मन्दररत्नशैलशिखरे' एतस्यार्थ. द्वयम् । यया मन्दरेषु पञ्चसु सुमेरुषु मध्ये रत्नं श्रेष्ठो यः सुदर्शनाख्यो मेरुः शैल: पर्वतस्तस्य शिखरे शृङ्गे । अपरोऽप्यर्थः-यथा मन्दरस्य मेरो रत्नानां शैलाः शिलासमूहा यस्मिंस्तादृशे इति । ततो पृथुलानि विपुलानि शैलानि एव तल्पानि पत्यकाः शय्यास्तैरङ्किते कलिते युक्त । पुनः किंभूते। स्मिता विकसिता ये द्रुमा वृक्षास्तेभ्यो गलन्ति वातादिवशात्स्वभावपरिपाकाद्वा निष्पतन्ति यानि मणीचकानि कुसुमानि तेषामुपचारः प्रकरः 'पगर' इति लोकप्रसिद्धः रचनाविशेषस्तेनाञ्चिते सहिते । पुनः किंभूते । द्विरेफाणां भ्रमराणां रवा गुञ्जितानि त एव गानितं गीतिर्जातं यस्मिन् तादृशमनिलेन पवमानेन लुलन्तीनां चपलीभवन्तीनां लतांनां विविधजातिवल्लीनां ताण्डवं नाटकं यन्मिन् । सर्वाण्यप्येतानि चित्रेषणानि भवनेष्वर्थात्संबध्यन्ते । किं चात्र भवनशब्देन राजमन्दिरादि ग्राह्यम् । तत्र सर्वेऽप्याः संभवन्त्येव दृश्यन्ते च । अथ वा पुण्याच्यानामान्यानामपि भवने भवन्ति शालिभद्रादिमन्दिरवत् इति ॥ युग्मम् ॥
क्वचिद्विकचकानने मधुपगीतिमिश्रां गिरं
जगुर्मुदु फलादनाः श्रुतिसुखां विदग्धा इव । कचिच्च ननृतुर्नटा इव शिखण्डिनां मण्डला
जगर्ज जलदः क्वचित्करिघटेव भूमीभृतः ॥ ३५ ॥ क्वचित्कुत्रापि शत्रुजयमेखलाशालिप्रदेशे विकचे विकसितकुसुमितमान्द्रद्रुमद्रोणीके कानने वने फलादनाः शुकाः मधुपानां कुसुममकरन्दपानोन्मादमेदुरभ्रमणां गीतिभि