SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ ७२४ काव्यमाला। लिकाः' इति चम्पूकथायाम् । पुनः परे अन्ये जनाः सितच्छदा राजहंसा इव तरन्ति । किंभूताः । मृगाक्ष्यो निजनिजयुवत्सः सखायो येषाम् । पुनः रसिका विविधजलकेलि. करणरसभाजो जनास्तिमिगणा मत्स्यव्रजाः इवान्तर्जलं पानीयमध्ये विशन्ति । 'डवकि इति लोकप्रसिद्धा । परे जनास्तपतॊीष्मकालस्य रविणा सूर्येण तापितास्तीव्रतापेन क्लेशिताः संतापिता इव मुदा हर्षेण प्लवन्ते सान्ति सानं कुर्वते । पुनः केचिदन्ये जनाश्विरेण बहुकालेन मिलितः संगतो य इष्टः खमनसोऽतिवल्लभस्तद्वत्तस्येवास्य ललितसरोवरस्य पार्श्व न जहति नो त्यजन्ति ॥ युग्मम् ॥ इति ललितसरोवरे यात्रिकजनविविधक्रीडा ॥ प्रमोदभरमेदुरः प्रथममेव संघस्तदा ___ स हीरविजयव्रतिक्षितिपतेः पदाम्भोरुहम् । अचुम्बदलिवन्महोदयमरन्दपानाभिको गुरुक्रमविलङ्घनं यदुदयेत न श्रेयसे ॥ २२ ॥ तदा तस्मिन् पादलिप्तपुरे समागमनावसरे प्रमोदानां स्थावरजङ्गमतीर्थानमश्चिकी. र्षोद्गतहर्षाणां भरेणातिशयेन मेदुरः पुष्टः स तत्तद्देशागतः संघो यात्रिकलोकप्रकरः प्रथमं पूर्व शत्रुजययात्रायाः प्रागेव हीरविजयनानो व्रतिनां साधूनां मध्ये क्षितिपते राज्ञः पदाम्भोरुहं चरणारविन्दमचुम्बचुम्बति स्म । ववन्दे इत्यर्थः । किंवत् । अलिवत् । यथा भ्रमरः कमलं चुम्बति । किंभूतः संघः । महोदयो महानतिशायी उदयो जगदैश्वर्यलक्षणो मोक्षश्च स एव मरन्दो मधु तस्य पाने अभिक: अभिलाषुकः । प्रथम. वन्दने हेतुमाह-यद्यस्मात्कारणात् गुरुक्रमाणां पूज्यपादचरणानामंतिक्रमणमहंगोल्लानं श्रेयसे कल्याणाय नोदयेत नो जायेत । 'प्रतिबध्नाति हि श्रेय: पूज्यपूजाव्यतिक्रमः' इति रघुवंशे ॥ वशारसिकगीतिभिर्विविधवाद्यमाद्यद्रवै. रखण्डकृतताण्डवैविदुरबन्दिवृन्दस्तवैः। समं प्रमुदितैर्जनैः प्रभुरितः प्रतस्थे गिरि सुरासुरनरोत्करैरिव जिनावनीवासवः ।। २३ ॥ तत इत्यध्याहार्यम् । संघागमनान्तरं प्रमुहीरविजयसूरिरितः पादलिप्तपुरात् गिरि शत्रुजयशैलं प्रति प्रतस्थे प्रचलति स्म । कथम् । समं सार्धम् । कैः । प्रमुदितैरानन्दं प्राप्त नैः संघलोकैः समम् । पुनः काभिः । वशानां तरुणीनां रसिकाभिः सरसाभिः श्रवणयोः सुधारसवर्षिणीभिः विविधरसललिताभिगीतिभिर्गानैः । पुनः कैः । विविधानि बहुप्रकाराणि वाद्यानि मृदङ्गमुरजपटहझल्लरीनिःखानभेरीनफेरीदुन्दुभिढकातालकंसालवीणावंशादिमवादित्राणि तेषां माद्यद्भिः सागरगिरिगहरादिषु प्रतिशब्देन मदमेदुरीभ
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy