________________
१६ सर्गः] हीरसौमाग्यम् ।
७९३ समग्रसुखसंपदभ्युदयसिद्धगोत्रान्तिके
व्यभूषि ललिताभिधं सर उपेत्य संधैः समम् ॥ १९ ॥ संधैर्यात्रिकपान्थसाथैः उपेत्य समीपे आगत्य ललित इत्यभिधा नाम यस्य तादृशं सरः । ललितसरोवरमित्यर्थः । समं समकालं व्यभूषि अलंकृतम् । उत्प्रेक्ष्यते-जडीकरणस्य । 'जडो मूर्खे हिमाघाते मूकेऽपि च' इत्यनेकार्थः । मूखीकरणस्य मूकीकरणस्य वा हिमांघ्रानीकरणस्य वा यो बहुना तुहिनेनाघ्रातो निबिडीभूतः स्यात्तस्य प्राणस्यापि संशयः स्यात्तथा मूर्खमूककरणादपि भीतिर्भयं ततः कारणात् हिमगिरेस्तुहिनाचला. प्रणश्य प्रपलाय्य । नेष्ट्रेत्यर्थः । इहास्मिन् समग्राणां समस्तानामैहिकामुध्मिकाणां सुखानां शर्मणां संपदा विभूतीनां वा अभ्युदय आविर्भावो यस्मात्तादृशस्य सिद्धगोत्रस्य सिद्धाचलस्य शत्रुजयशैलस्य मत्रतत्रविद्यौषधीरसादिभिः सिद्धानां पुरुषाणां गोत्रस्य वंशस्य अन्तिके यत्र गोत्रे सर्वेऽपि सिद्धतरास्तेषां संनिधौ आगतं मानसं नाम सरः पद्माकर इव । किंभूतम् । सह कुलैः पुत्रपौत्रप्रपौत्रभ्रातृभ्रातृव्यखजनादिवंशैर्वर्तते ये तादृशानां हंसानां सितच्छदानां मालाभिोरणीभिराकुलं व्याप्तम् । हिमाचले मानसं सरोऽस्ति । यदुक्तं चम्पूकथायाम्-'सदाहंसाकुलं बिभ्रन्मानसं प्रचलजलम् । भूभृन्नाथोऽपि नायाति यस्य साम्यं हिमाचलः ॥' इति । तत आगमनं युक्तमेव ॥
, गजा इव जनास्ततः सलिलकेलिमातन्वते . . पिबन्ति च पिपासिताः सलिलमत्र पान्था इव । विजृम्भिजलजावलिं कुसुममालिकां मालिका
इवावनिरुहे पुनः क्वचन केचिदुच्चिन्वते ॥ २० ॥ तरन्ति च सितच्छदा इव परे मृगाक्षीसखा
विशन्ति रसिकाः पुनस्तिमिगणा इवान्तर्जलम् । . तपतुरवितापिता इव मुदा प्लवन्ते परे
चिरेण मिलितेष्टवजहति नास्य पाश्वे पुनः ॥२१॥ ततः ललितसरःसमीपागमनोत्तरणानन्तरम् अत्र ललितसरोवरे केचित्केऽपि जना गजा हस्तिन इव सलिलकेलिं जलमज्जनादिकां क्रीडामातन्वते कुर्वते । च पुनरत्र सरसि पान्थास्तपागमतीव्रतपनतापसंशुष्यद्गलतालुरसनोष्टपुटसंकटविधुराः पथिका इव पिपासितास्तृषातरलिताः सन्तः केचिजनाः सलिलं पानीयं पिबन्ति । पुनः क्वचन कुत्रापि सरःप्रदेशे केचन जनाः विजृम्भिणी विकसनशीलां जलजानां पद्मानामावली मालिकामुच्चिन्वते उच्चित्य गृह्णन्ति । के इव । मालिका इव । यथा मालाकारिका अवनिरहे वृक्षे कुसुममालिका पुष्पपरंपरामुञ्चिन्वन्ति च । 'मालतीषु कुसुमश्रद्धालवो मा.