SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ ७९२ काव्यमाला। 'निकायस्तु सधर्मिणाम्' इति हैम्याम् । भवनपतिव्यन्तरज्योतिष्कवैमानिकलक्षणाश्चतुर्निकायास्तादृशा अमरा देवास्तैः पुरंदरगिरेमरोः समीपं शोभां लभ्यते । यथा सुरगिरिः तथा सुरेन्द्रगिरिरपि । यथा सुराचार्यस्तद्वत्पुरंदरगुरुरपि । यथा नैषधे-शैशवावधि गुरुर्गुरुरस्य' । अस्य शक्रस्य । तथा श्रीपालचरित्रे-'सक्वगुरूचेवसक्के ई' इति । तथा नैषधे-'जाम्बूनदार्थी धरसार्वभौमः' । यथा शक्रनामेदं तथा शक्रस्यायमपि शैल इति ॥ धराधिविबुधेरिता किमु सहैव संकेतभा किमत्र सुकृतैरुत व्रतिपतेरिवाकर्षिता । शताङ्गमुखवाहनानुगतयौवतभ्राजिना यदेकसमये ततिस्तनुमतामुपेता गिरौ ॥ १७ ॥ गुरौ शत्रुजयाचले तनुमतां प्राणिनां यात्रिकजनानां ततिः श्रेणी यद्यस्मात्कारणात् एकसमये एकस्मिन्नेव प्रस्तावे उपेता समकालं समागता । किंभूता.। शताङ्गाः स्यन्दना रथा मुखे आदी येषां तादृशानि वाहनानि यानानि तैरनुगतानां युक्तानां यौवतैर्युवतीसमूहै_जन्ते शोभन्ते इत्येवंशीलास्तेषां द्वयोरपि कर्मधारयः । तत्रोत्प्रेक्ष्यते-धरस्य विमलादेरधिविबुधैरधिष्ठायकसुरैः ईरिताः प्रणुन्नाः किम् । अथ वा सहैव एककालमेकेन वारेणैव संकेतं परस्परसंगमस्थानं भजतीति तादृशी किमु । उताथ वा अतिपतेहीरविजयसूरेः सुकृतैः पुण्यैराकर्षिता अत्र शत्रुजये आकृष्यानीतेव वा कश्चिदाकर्षयति । खार्थे निप्रत्ययः । आकर्ण्यते स्मेत्याकर्षिता ॥ तुरङ्गममतङ्गजाग्रिमशताङ्गरगन्मरु-. प्रियोक्षतरबेसरोत्करपुरःसरप्राञ्चिता। . पुरीपरिसरावनी समजनिष्ट संघागमे . तदा विजयिमेदिनीरमणराजधानीव सा ॥ १८ ॥ .. तदा तस्मिन् यात्रिकजनवजागमनसमये पुर्याः पादलिप्तनगर्याः परिसरस्य समीपप्रदेशस्य अवनी भूमी की विजयिनो विजयकरणशीलस्य मेदिनीरमणस्य राज्ञो राजधानी स्कन्धावतार इव समजनिष्ट संजाता । किंभूता । तुरङ्गमा अश्वा मतङ्गजा हस्तिनः तथा अग्रिमाः प्रकृष्टाः शताङ्गाः रथास्तथा रङ्गन्तो मरुप्रियाः करभाः तथा उक्षतरा महोक्षाः पुष्टबलीवर्दास्तथा बेसरा अश्वतरा: लोके 'खचर' इति प्रसिद्धास्तेषामुत्कराः समूहास्तथा पुरःसराः पादचारिणः तैः प्राञ्चिताः परिपूर्णा निभृतं भृताः ॥ इति संघागमनम् ॥ जडीकरणभीतितो हिमगिरेः प्रणश्यागतं सरः किमिह मानसं सकुलराजहंसाकुलम् ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy