________________
१६ सर्गः हीरसौभाग्यम् ।
७८७ सुरादिपरिवारिता किममरावती स्वर्गतः ___क्षितौ किमुपजग्मुषी विमलशैलयात्राकृते । द्विजिह्वनिचिताश्रयं किमु विहाय गेहं बले
रुतागतमिह श्रिया स्फुरति पादलिप्तं पुरम् ॥ ५ ॥ इह शत्रुजयशैलतलहट्टिकायां णदलिप्तं पादलीताणाभिधानं पुरं श्रिया शोभया लक्ष्म्या वा स्फुरति दीप्यते । उत्प्रेक्ष्यते-विमलशैलस्य पुण्डरीकाद्रेर्यात्राकृते स्पर्शनदेवदर्शनपूजनाद्यर्थ स्वर्गतो देवलोकाक्षिप्तौ पृथिव्यामाद्विमलाचलसंनिधौ सम्यकप्रकारेण महा उपजग्मुषी समागता किममरावती इन्द्रनगरीव । किंभूता । सुरा देवाः । आदिशब्दाद्देव्यः इन्द्राण्यः मन्दिराणि कोवाप्यः वनानि सरांसि पुरीपरिकरादि सर्वमपि संगृह्यते । सुरादिभिः परिवारः संजातोऽस्या इति परिवारिता परिच्छदर्कलता । उताथ वा इह गिरेरुपान्ते आगतं संप्राप्तं बले हमिव नागलोक इव । किं कृत्वा । द्विजिकैः भुजंगमैः पिशुनैर्वा निचितं व्याप्तमाश्रयं स्वस्थानं विहाय त्यक्त्वा । यदुक्तम्-'ङ्गिणं दशभिर्हस्तैः शतहस्तैहयं त्यजेत् । गजं हस्तसहस्रेण देशत्यागेन दुर्जनम् ॥' इति ॥
भवाहितभिदोदयत्परमसातमाशंसतां ___पुरी निजनिवासिनामसुमतां समूहानसौ । महोदयमहापुरं विमलशैलमूलाध्वना ।।
निनीपुरमुना किमु स्थितवती समेत्यान्तिके ॥६॥ असौ पादलिप्ताभिधाना नगरी अन्तिके शत्रुजयाद्रिसमीपे समेत्यागत्य स्थितवती . उवास.स्थितिं कृतवती । उत्प्रेक्ष्यते-निजनिवासिनां खस्यां नितरां सातेन वसनशीलानाम्। निजनिषेविनाम्' इति पाठे तु निजमात्मानं नितरामतिशयेन सेवन्ते इत्येवंशीलानामसुमतां प्राणिनां समूहान् गणान् अमुना प्रत्यक्षलक्ष्येण विमलशैलरूपो यो मूल: अध्वरोऽध्वा मार्गस्तेन कृत्वा महोदयो मोक्षः अथ वा महानतिशायी उदयः मानससमीहितं सर्वसंपत्प्राप्तिर्यस्मिन् तादृशं महापुरमनन्तसुखविधायकत्वात्सर्वनगराभ्यधिक- पत्तनं किमु निनीषुर्नेतुमिच्छुरिव । असुमतां किं कुर्वताम् । भवः संसारः स एवाहितः शत्रुर्न विद्यते हितं शुभोदर्को यस्मात्सोऽहितः केवलानिष्टतरायतिफलप्रदस्तस्य भिदा व्यापादनं तया कृत्वा उदयत्प्रकटीभवत्परममुत्कृष्टं सातं शर्म आशंसतां काताम् ॥
विजित्य निजवैभवैः सुरनरोरगस्वामिनां
स्फुरत्पुरपरम्परा जगति पादलिप्तं वरम् । परश्शतजिनेश्वराश्रयशिखाङ्गणालिङ्गिनी
द्विषद्विजयबोधिकां व्यधृत वैजयन्तीरिव ॥ ७ ॥