________________
७८८ .
काव्यमाला।
पादलिप्तं पुरं नाम नगरं द्विषतां श्रिया कृत्वा खप्रतिमल्लानां विजयस्य पराभवस्य बोधिकां कथयित्रीम् । 'निजत्रिनेत्रावतरत्वबोधिकाम्' इति नैषधे । उत्प्रेक्ष्यते-वैजयन्तीमहापताका व्यधृत धारयति स्मेव । किंभूता वैजयन्तीः । परश्शताः शतसहस्रसंख्याकाः ये जिनेश्वराणां तीर्थकराणामाश्रया गेहाः । प्रासादा इत्यर्थः । तेषां शिखाङ्गणानि शृङ्गाजिराणि आलिङ्गन्त्याश्लिप्यन्तीत्येवंशीलाः। किं कृत्वा व्यधृत । जगति त्रैलोक्येऽपि सुरा देवाः नरा मानवा उरगा असुरनागास्तेषां खामिनां नायकानां - सुरेन्द्रनरेन्द्रनागेन्द्राणां स्फुरतां लक्ष्म्या दीप्यमानानां पुराणां नगराणां परम्पराः श्रेणीनिजवैभवैः खकीयसमृद्धिशोभातिशयैर्विजित्य परिभूय ॥
नृशंसनिकषात्मजवजनिवासतो बिभ्यती ___ पयःप्रकटसंकटाजलधिजाच्च निर्वेदभाक् । अपास्य पदमात्मनः किमियमत्र लङ्कागता
पुरी पुरजनोत्सवैरलमकारि सूरीन्दुना ॥ ८॥ सूरीन्दुना हीरविजयसूरिचन्द्रेण पुरजनानां नगरलोकानामुत्सर्वमहामहैर्जायमानैः सद्भिः पुरी पादलिप्तनानी नगरी अलमकारि भूष्यते स्म । उत्प्रेक्ष्यते-अत्र शत्रुजयसमीपे तलहहिकाप्रदेशे आगता समागता लङ्का दशकंधरनगरीव । किं कृत्वा । आत्मनः खस्या पदं जलधिमध्यगतं स्थानमपास्य त्यक्त्वा । किंभूता । नृशंसानां निर्दयानां निकषात्मजानां राक्षसानाम् । 'कीनाशरक्षोनिकषात्मजाश्च' इति हैम्याम् । व्रजानां कुलकलापानां निवासतोऽनिशं खस्यां निवसनं ततो बिभ्यती भीतिं प्राप्नुवती । च पुनः किंभूता। निर्वेदभाक् खेदोपगता । कस्मात् । जलधिजात्समुद्रोत्पन्नात् । परिखास्थाने परितः पयोधिमध्ये लङ्का तादृग्जलमध्यस्थितिलक्षणात्पयसां पानीयांनां प्रकटादुल्बणात्संकटाक्लेशात् । 'स्थानं त्रिकूटः परिखा समुद्रो रक्षांसि योधा धनदाच्च वित्तम् । संजीविनी यस्य मुखे च विद्या स रावणो दैववशाद्विनष्टः ॥' इत्युक्तेः॥ इति पादलिप्तपुरम् ॥
अशेषविषयान्तराद्व्यतिकरेऽत्र संघाधिपाः ___ समं मनुजराजिभिर्जयिमहीमहेन्द्रा इव । भगीरथगिरीश्वरं प्रति शताङ्गमातङ्गयु
क्तुरङ्गशिबिकामुखप्रमुखयानभाजोऽव्रजन् ॥९॥ अत्र व्यतिकरे पादलिप्तपुरे सूरिसमागमनप्रस्तावे अशेषविषयान्तरात्समस्तजनपदमध्यात्संघाधिपाः संघपतयः मनुजानां मनुष्याणां राजिभिः श्रेणिभिः समं भगीरथ. गिरीश्वरं विमलाचलेन्द्रं प्रति अवजन् प्रतिष्ठन्ते स्म । 'बाहुबलिर्मेरुर्देवो भगीरथः सहस्रपत्रशतपत्रः' इति शत्रुजयकल्पे । के इव । जयिनो विजयकरणशीला महीमहेन्द्रा महामण्डलीकमहीपाला इव । तेऽपि मानवमण्डलीभिः प्रतिष्टन्ते । अर्थात् दिग्विजयाय । किंभूताः संघाधिपाः नृपाश्च । शताङ्गा रथा मातङ्गा हस्तिनः तैर्युञ्जन्ति युक्ता भवन्ति ।