________________
७८६
काव्यमाला। युनक्तीलानन्दयुक् तादृशं पुरम् । आनन्दपुरमित्यर्थः । तदायातमिव । किं कुर्वत् । अतिदूरभावमतिशयेनात्यन्तं विप्रकृष्टतां यजन् मुश्चन् ॥
नभोगमनभेषजव्रजविधेरनुग्राहिणा . गुरोरभिधया पुरं गृहमिव त्रिलोकीश्रियाम् । सुवर्णरससिद्धिमान्विविधसिद्धविद्यान्वितः
___स्म वासयति संनिधौ नगवरस्य नागार्जुनः ॥ ३ ॥ .. नागार्जुनो नाम योगीन्द्रः पादलिप्तसूरेरभिधया नाना नगेषु सर्वपर्वतेषु वरः सिद्धिदायकवात्प्रधानः शत्रुजयशैलेन्द्रस्य संनिधौ समीपे पुरं पादलिप्तनगरं वासयति स्म निवेशितवान् । उत्प्रेक्ष्यते-त्रिलोकीधियां त्रैलोक्ययावलक्ष्मीणां गृहं निवाससौधमिव । गुरोः किंभूतस्य । नभसि आकाशे गम्यते पादलेपप्रभादंभ्रम्यते अनेनेति नभोगमनं भेषजानां सप्रभावाणां सौषधानां व्रजः अष्टोत्तरशतसंख्यः समूहास्तस्य विधेः प्रकारस्यानुगृह्णाति खभक्तीभवनात्प्रसादं करोतीत्येवंशीलस्य । किंभूतो नागार्जुनः । सुवर्णस्य सार्धषोडशवर्णिकाभाजो हेम्नः कोटीवेधीति नानो रसस्य जलरूपस्य सर्वधातुभेत्तुः सिद्धिनिष्पादनं विद्यते अस्येति सुवर्णरससिद्धिमान् । नवीनं सुवर्णरसं खयं निष्पादयतीत्यर्थः । पुनः किंविशिष्टः । विविधा नानाप्रकाराः सिद्धाः परिपाकं प्राप्ताः कार्यकारिणः । अथ वा प्रत्यक्षीभूततदधिष्ठायकदेवतास्तादृश्यो विद्या आम्नायमन्त्रास्ताभिरन्वितः । नागार्जुनयोगी श्रावकीभूय श्रीपादलिप्तसूरीशितुः सकाशात् गगनगमनदायकभेषजानायमग्रहीदिति श्रूयते ॥
यदीयविभवैर्जगत्रयपुरीपराभावुकैः ___पुरी त्रिदिवसद्मनां परिभवं भराल्लम्भिता । उपास्तिमतनोन्निजाश्रयजुषस्त्रिलोकीसृजः
सरोजवसतेरिवाकलयितुं स्वयं तत्तुलाम् ॥ ४ ॥ त्रिदिवसद्मनां देवानां पुरी नगरी अमरावती नानी निजमात्मैवाश्रयं स्थानं जुषते भजते खस्याश्रये स्थान सेवते वा तादृशस्य सरोजवसतेः । 'ताम्यंस्तामरसान्तरालवसतिर्देवः स्वयंभूरभूत्' इति खण्डप्रशस्तौ । तथा 'नाभिपद्मात्मभूतिः' इति हैम्याम् । ब्रह्मणः । उत्प्रेक्ष्यते-उपास्ति सेवायतनोच्चकारेव । किंभूतस्य सरोजवसतेः । त्रिलोकीसृजः जगतां त्रयीं सृजति करोतीति । किं कर्तुम् । खयमात्मना तस्य पादलिप्तपुरस्य तुला साम्यमाकलयितुं प्राप्तुम् । किंभूता अमरावती । जगतां पातालभूमिस्वर्गाणां त्रयस्य । त्रिभुवनस्येत्यर्थः । पुरीणां समग्रसुरासुरनरनगरीणां पराभावुकैरभिभवनशीलैयदीयैः पादलिप्तपुरसंबन्धिभिर्विभवैः शोभातिशयैर्भरादाधिक्या परिभवमभिभूति लम्भिता प्रापिता ॥