________________
१६ सर्गः हीरसौभाग्यम् । चिते हीरस्य हीरविजयसूरेश्वरितं यत्पावारादिना सिद्धिगमनादिकं चरित्रं यत्र तादृशे वृत्ते हीरसौभाग्यनाम्नि महाकाव्ये असौ पूर्वोक्तलक्षणः पञ्चदशः पञ्चदशानां संख्यापूरणः अत्र हीरचरित्रे सर्गोऽधिकारविशेषः बभूवान् संजातः ॥ इति पण्डितसीहविमलगणिशिष्यपण्डितदेवविमलगणिविरचितायां खोपज्ञहीरसौभाग्यमहाकाव्यवृत्तौ गुर्जरदेशात्प्रस्थानशत्रुजयसमीपागमनतद्दर्शनतर्
र्णनो नाम पञ्चदशः सर्गः।
षोडशः सर्गः। समीपमुपजग्मिवानथ गिरीशितुः श्रीगुरुः
प्रभावमतिशायिनं त्रिभुवने समाकर्णयन् । सुरद्रुमसमुल्लसत्कनककान्तकायद्युति
लघूकृततनुः समीक्षितुमिवोत्सुकः खगिरिः ॥ १॥ अथ दर्शनसम्यगवलोकनानन्तरं श्रीगुरुः हीरविजयसूरिगिरीशितुः शत्रुजयशैलशक्रस्य समीपं पार्श्वमुपजग्मिवान् समाजगाम । सप्तम्यर्थे द्वितीया । उत्प्रेक्ष्यते-समीक्षितुं सम्यक्तया विलोकयितुमुत्सुक उत्कण्ठितः स्वर्गिरिर्मेरुरिव समीपे समेतः । किं कुर्वन् । त्रिभुवने त्रैलोक्येऽपि अतिशायिनमत्यभ्यधिक प्रभावमाद्विमलादेर्माहात्म्यं समाकर्णयन् सम्यगेकाप्रमनसा शृण्वन् । महिमानं श्रुत्वा तं द्रष्टुमागत इत्यर्थः। किंभूतः श्रीगुरुः स्वगिरिश्च । सुरद्रुमाः पश्चापि कल्पवृक्षाः तद्वद्दाटतया निरुपमरूपवत्तया च तैश्च समुल्लसन्दीप्यमानः तथा कनकं सुवर्ण तद्वद्वा तेन च कान्ता मनोज्ञा कायस्य शरीरस्य द्युतिर्यस्य । पश्चात्कर्मधारयः। किंभूतः खर्गिरिः। लघूकृता खल्पा विहिता तनूः शरीरं येन ॥
तदद्रितलहट्टिकाप्रथितपादलिप्ताभिधं
पपौ पुरमपश्रमः श्रमणशर्वरीवल्लभः । उपेतमिह पूर्ववत्पुनरुपान्तमानन्दयु
पुरं प्रथमहार्दतः किमतिदूरभावं त्यजन् ॥ २॥ श्रमणशर्वरीवल्लभः तस्य शजूंजयनाम्नोऽदेः पर्वतस्य तलहटिका परिसरभूमिः 'तलहटी' इति प्रसिद्धा तस्यां प्रथितं भुवि विख्यातं तथा पादलिप्तमित्यभिधा नाम यस्य तादृशं पुरं नगरं 'पालीतागुं' इति लोके प्रसिद्धं पपी सादरमवलोकितवान् । मार्गश्रान्तस्य नगरस्य प्रमोदकृदित्यादरपूर्वकप्रेक्षणम् । अत एव सूरिः किंभूतः । अपगतः श्रमो मार्गप्रयासखेदो यस्य सोऽपश्रमः । उत्प्रेक्ष्यते-इह तलहटिकायां पूर्ववप्रथममित्र पुनर्व्याधुव्य द्वितीयवारम् । पूर्व भरतचक्रिणा शत्रुजयदर्शनादानन्दसमुत्पादातलहट्टिकायां वासितमासीत् , बहुकालातिक्रमवशात्कालानुभावेन च गिरिघटनात्तदतिदू. रीभूतम् । अत एव प्रथमहार्दतः पूर्वस्नेहादुपान्ते शत्रुजयसमीपे उपेतमागतमानन्देन
-