SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। मलयो दक्षिणाचल: गोशीर्षचन्दनोत्पत्तिस्थानं मलयगिरिस्तावत्प्रमाणमस्येति सम. यप्रमाणं लीलया खरसेन स्थानवैशिष्टयेन वा विलासं विभ्रमं कलयति विभर्ति । अपि पुनर्विन्ध्यशैलो जलबालकाचल: मत्तेभानां मदोदयोद्धतानां मतङ्गजेन्द्राणां गर्वमहंकार धत्ते धारयति । विन्ध्याद्रौ हि भद्रमन्दमृगमिश्रजातयो गजा उत्पद्यन्ते तदभिमानः । पुनस्तुहिनधरणिभृत् हिमाचलस्तावदेवाभिराम: कस्तूरिकामृगौषधीप्रस्थचमरगोप्रमुखै. मनोज्ञः । तथा मेरुः सुपर्वपर्वतः तावन्महत्त्वं महिमानं गरिमाणं वहति । पुनह.. रगिरिः कैलाशस्तावन्तं कालमाभां शोभा गाहते आलम्बते यावत् यावता समयेन स त्रिभुवनप्रसिद्धः पर्वतेन्द्रः शत्रुजयशैलाखण्डल: नयनपुटैः नेत्रपत्रामत्रैर्न पीयते सादरं खदृशा नावलोक्यते। किंभूतः । तीर्थानां पुण्यस्थानानां मोक्षगमनक्षेत्राणां वा अधिरा.. जश्चक्रवर्ती तीर्थाधिराजः पर्वतेन्द्रः । 'श्रिय: पदम्' इति शत्रुजयमाहात्म्योक्ताभिधानत्वात् ॥ विविधकमलाकेलीगेहं क्षमाक्षणदापते. . . गृहमिव महीकान्तारत्नावतंसमिवोन्नतम् । सफलमखिलं कर्तु कापञ्जनुगिरियात्रया व्रतिवसुमतीशक्रः शत्रुजयं खदृशा पपौ ॥ ८१ ॥ अतिनां संयमिनां मध्ये वसुमतीशको राजा । 'राजा राट् पृथिवीशक्रः' इति हैम्याम् । हीरविजयसूरीश्वरः शत्रुजयं विमलाचलं खदृशा निजनयनेन पपौ सादरमवलोकयति स्म । प्राक् सर्गस्य तृतीये 'सिद्धिशैलं ददर्श' इत्युक्तमास्ते तत्र तु दूरत्वेन दृड्यात्रावलोकनम् । इदानीं तु शनैः शनैः संनिधानागमनेन सम्यगवेक्षणत्वेन शिखरादिस्थानविशेष. विभूषितं पुण्डरीकपर्वतं खलोचनाभ्यां सादरं दृष्टवानिति विशेषः । किं कामेच्छन् । शत्रुजयशैलारोहणप्रासादप्रतिमादर्शनसर्वतः स्पर्शनादिभिरखिलमशेषमपि जनुर्जन्म खावतारं सफलं फलेग्रहिं कृतार्थ फलकलितं कर्तुं विधातुं कालन् वाञ्छन् । किंभूतं शत्रुजयम् । विविधानां कमलानां केलीगेहं क्रीडासदनम् । 'केलीभिरुद्धर कृशोदरि' इति नैषधे । किमिव । गृहमिव । यथा क्षमाक्षणदापतेर्वसुधासुधाकरस्य आसमुद्रान्तभूमीभर्तुर्भवनं भाण्डागारगेहमन्यद्वा सौधं विविधत्रीणां स्थानं भवेत् । शत्रुजयमुत्प्रेक्षतेमहीकान्ताया भूमीभामिन्या रत्नावतंसं मणिमयशेखरमिव । किंभूतम् । उन्नतं तुङ्गम् ॥ यं प्रासूत शिवाह्वसाधुमघवा सौभाग्यदेवी पुनः श्रीमत्कोविदसिंहसीहविमलान्तेवासिनामनिमम् । तद्ब्राह्मीकमसेविदेवविमलेनानन्दतो निर्मिते वृत्ते पञ्चदशोऽत्र हीरचरिते स! बभूवानसौ ॥ ८२ ॥ आनन्दतः सकलतीर्थाधिराजस्मरणवर्णनोद्भूतनूतप्रमोदाद्देवविमलेन निर्मिते विर
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy