________________
७८३
१९ सर्गः] हीरसौभाग्यम् ।
नाराचोपचिता विश्वजैत्रीश्चापलता इव ।
भृङ्गालिसङ्गिनीर्धत्ते पद्मिनीः प्रतिपल्वलम् ॥ ७८ ॥ यः शत्रुजयाद्रिः प्रतिपल्वलं पद्माकरं पद्माकरं प्रति भृङ्गाणां मधुकराणामालिभिः श्रेणीभिः सह सङ्गोऽनुषङ्ग आसक्तिरस्त्यासां तादृशीः पद्मिनी: कमलिनीः कमलानि वा धत्ते धारयति । उत्प्रेक्ष्यते-यः शैल: विश्वानां जगतां जैत्रीर्जयनशीलास्तथा नाराचै. र्लोहमयवाणैः सर्वायसशरैरुपचिताः संधानसहिताः लता धत्ते इव धारयतीव । कि कुर्वन् । हन्तुं निहन्तुं स्पृहयन् कावन् । केन । आत्मना स्वयमेव खभक्कलप्रीत्या । कम् । संदोहम् । केषाम् । अन्तरङ्गा मध्ये वर्तमाना अष्ट कर्माण्येव अथ वा क्रोधमानमायालोभरागद्वेषाख्या एव विरोधिनः प्रतिपक्षास्तेषाम् । किंभूतानाम् । अरुंतुदानां मर्मव्यथकानाम् । केषाम् । खस्मिन् खस्य वा भक्ताः सेवासत्तास्तादृशा ये भव्याः सिद्धिगमनयोग्या जन्तवः प्राणिनस्तेषाम् ॥
स्वस्मिन्नम्बरचारिणां प्रतिपदं कृत्वैकतानं मनो
विद्याः साधयतां स्वपुण्यमिव यः सिद्धीविधत्ते धरः। यस्मिन्कापि च योगिनामहरहज्योतिः परं ध्यायतां
हृत्पने परमात्मना प्रकटितं पूष्णेव पूर्वोचले ॥ ७९ ॥ यो धरः शत्रुजयाद्रिः । 'प्रावापर्वतभूधभूधरधराः' इति हैम्याम् । एकतानमेकानं विद्याध्यानलीनं मनो मानसं कृत्वा विधाय प्रतिपदं स्थाने स्थाने आत्मशिखरकंदरा. शिलातलोद्यानकुण्डतटभूमिपीठेषु खस्मिन्नात्मनि विषये विद्या गोचरीप्रज्ञप्तिप्रमुखा विद्याधिष्ठायिका देवता मन्त्रान् साधयतामाराधनं कुर्वतामम्बरचारिणां विद्याधराणां सिद्धीः · कार्यनिष्पत्तीविधत्ते कुरुते । विद्यादेवतास्तत्प्रत्यक्षीकरोतीत्यर्थः । किमिव । खपुण्यमिव । यथा निजप्राचीनसुकृतं सिद्धीदत्ते । च पुनर्यस्मिन्विमलाचले क्वापि प्रदेशे अहरहः प्रतिवासरम् । नित्यमित्यर्थः । परं परममुत्कृष्टं ज्योतिर्ब्रह्म परमेष्ठिलक्षणं ध्यायतां ध्यानगोचरीकुर्वतां योगिनां मनोवाकाययोगवतामष्टाङ्गयोगभाजां वा योगीन्द्राणां हृत्पने हृदयकमले परमात्मना ब्रह्मखरूपेण प्रकटितं प्रादुर्भुतम् । योगिनो हि ध्यानं कुर्वाणा हृदयकमलकर्णिकायां परमात्मस्वरूपमालोक्य ध्यानाद्विरमन्तीति श्रुतिः । 'योगात्स चान्तः परमात्मसंज्ञं दृष्ट्वा परं ज्योतिरुपारराम' इति कुमारसंभवे । केनेव । पूष्णेव । यथा पूर्वाचले सहस्ररश्मिना प्रकटीयूयते ॥ तावल्लीलाविलासं कलयति मलयो विन्ध्यशैलोऽपि ताव.
द्धत्ते मत्तेभगर्व तुहिनधरणिभृत्तावदेवाभिरामः । तावन्मेरुर्महत्त्वं वहति हरगिरिाहते तावदाभां
यावत्तीर्थाधिराजो न नयनपुटैः पीयते पर्वतेन्द्रः ॥ ८ ॥