________________
७७८
काव्यमाला।
सजलजलदबुद्ध्या वीक्ष्य बप्पीहबालाः
कृतपटुचटुवाचो यत्र धावन्ति मुग्धाः ॥ ६४ ॥ यत्र शत्रुजये क्वचन कुत्रचन प्रदेशेषु मुग्धा अज्ञाना बप्पीहानां चातकानां बालाः शिशवः अङ्गना वा सजलानां पानीयपूर्णानां जलदानां मेघानां बुद्ध्या धिया भ्रान्त्या वा धावन्ति संमुखं पार्श्व वा यान्ति । किंभूताः । कृता विहिताः पटवः प्रवणाश्चटवः प्रियप्राया वाचो वाण्यो यैर्याभिर्वा । किं कृत्वा । जिनगृहाणां जैनप्रासादानामन्तमध्ये दह्यमाना भगवत्पुरो धूपोत्क्षेपणार्थ धूपाधानानौ प्रज्वाल्यमानाः । उत्क्षिप्यमाना इत्यर्थः । ये अगुरवः काकतुण्डास्तेभ्यः प्रसरन्तं विस्तरन्तं तथा अमरमार्गे आकाशे प्रस्फुरन्तमितस्ततो भूत्वा दशदिग्गृहाङ्गणानि व्याप्नुवन्तं वायुवाहं धूमं वीक्ष्य दृष्ट्वा ॥ .
स्वकरनिकरसङ्गश्चोतदिन्दूपलाम्भो__ भरमिदमचलोचैरत्नशृङ्गाद्गृहीत्वा । स्वयममृतमरीचिमैत्र्यतः कैरवाणां
किमु दिशति तमेव प्रग्निपीयूषदम्भात् ॥ १५ ॥ अमृतमरीचिश्चन्द्रः कैरवाणां खबन्धुकुमुदानां मैत्र्यतः परस्परसंख्यात् प्रश्नीना पीयूषस्य कान्तिद्वारा अमृतस्य प्रश्निरूपस्य पीयूषस्य वा दम्भात्कपटात् तमेव चन्द्रकान्ताम्भोभरमेव खयमात्मना दिशति ददातीव । किं कृत्वा । इदमचलस्य अस्य शत्रुजयाद्रेश्चैः ऊर्ध्वमधिकायां यद्नानां चन्द्रकान्तककेंतनादिमणीनां भृङ्ग शिखरं तस्मात्वस्य कराः किरणास्तेषां निकरो राशिस्तस्य सङ्गः संपर्कस्तेन श्चोतन्तः क्षरन्तो गलन्तो ये इन्दूपलाश्चन्द्रकान्तमणयस्तेषामम्भोभरं जलपटलं गृहीत्वा आदाय ॥
यस्मिन्नुरोद्वयसनिःसृतसिन्धुरङ्क
क्रीडन्सुरासुरपुरंधिपयोधराणाम् । कस्तूरिकामलयजद्रवसान्द्रपूरा
रेजे यमीसलिलसंवलितेव गङ्गा ॥ ६६ ॥ यम्मिन् शत्रुजयाद्री उरोद्वयसंहृदयप्रमाणं निःसता निर्गता सिन्धुर्नदी यस्या यमु. नायाः सलिलैः संवलिना मिश्रितजला गङ्गेव रेजे विभाति स्म । किंभूता सिन्धुः । अङ्के जलोत्सङ्ग क्रीडन्तीनां जलकेलि कुर्वाणानां सुराणां देवानामसुराणां दानवानां पाता. लवासिनां प्रथमनिकायभवनयतिनिर्जराणां वा पुरंध्रीणां वधूनां पयोधराणां विविधपत्रलताकलितस्तनकलशानां कस्तूरिकाणां गन्धधूलीनां मलयजन्मनां चन्दनानां द्रवैः जम्बालिनीजलसङ्गात्प: सान्द्रं करम्बितं पूरं जलप्रवाहो यस्याः ॥
यत्रोन्मदैः परिणतैर्हरितां करीन्द्रैः रुखातगैरिकभरैर्नभसि भ्रमद्भिः ।