________________
१५ सर्गः] हीरसौभाग्यम् । बलाकाः सेविष्यन्ते' इति । तथा वर्षासु बका नोडवृक्षादावेवोपविश्य तिष्ठन्ति, बलाकाश्च तेषां भक्ष्यमानीय ददते । 'बगला पावसवइठा' इति लोकवृत्तावपि श्रूयते प्रसिद्धिः । तस्माद्बलाकापदोपादानम् । तथा आकालिकी विद्युत् । तथा वारिधारा जलवृष्टयो येन ॥
क्वचिदपि रुचिचञ्चत्पद्मरागप्रगल्भं
मरकतमणिचङ्गोत्तुङ्गशृङ्गं चकासे । विजितमृषभभा धीरगम्भीररावै
. स्तप इव तनुतेऽस्मिंस्तत्तुलायै तडित्त्वान् ॥ १२ ॥ क्वचिदुपि कुत्रापि स्थाने शत्रुजयपर्वतोपरिभूमौ मरकतमणीनां महेन्द्रनीलरत्नानां चङ्गं प्रधानं मरकतमाणिक्यैर्वा चङ्गं चारु तथोत्तुङ्गमभ्रंलिहं शृङ्गं चकासे दीप्यते स्म । किंभूतम् । रुचिभिर्निर्यज्योति:पुज्ञैश्चञ्चद्भिर्दीप्यमानैः पद्मरागैः लक्ष्मीपुष्परत्नैः प्रगल्भं भ्राजमानम् । उत्प्रेक्ष्यते-ऋषभभ; विमलाचलकमलालंकारहारेण श्रीवृषभदेवस्वामिना आदिनाथेन धीरैरभङ्गाघुघुरैः गम्भीरैर्मन्द्रः मध्यमानपाथोनाथनिर्घोषानुकारिभिः रावैः खशब्दैः जितः पराभूतः सन् तडित्त्वान् विद्युद्वलयालंकृतो जलधरस्तेषां जैनधीरगम्भीररावाणां तुलायाः सादृश्यस्य आत्यै प्राप्त्यै किं तपस्तनुते उपवासादि. कष्टं करोतीव ॥ ·
चपलशफरनेत्रा बन्धुरावर्तनाभी
मधुपपटलकैश्या मानसावासहासाः। कनककमलगौर्यो वीचिमालावलीकाः
स्त्रिय इव रसभाजो भूभृतापो ध्रियन्ते ॥ १३ ॥ . . भूभृता शत्रुजयाद्रिणा स्त्रियो वध्व इत्र आपो जलानि ध्रियन्ते । किंभूता आपः स्त्रियश्च । चपलाश्चञ्चलाः शफरा मत्स्या एव तद्वद्वा नेत्राणि नयनानि यासाम् । तथा बन्धुरो मनोज्ञ आवर्तो दक्षिणावर्ती श्रमिविशेषः पयसां भ्रमो भ्रमणं यासां तादृश्यो 'नाभ्यो मध्यं तुन्दकूपिकाश्च यासां तथा मधुपानां भ्रमराणां पटलानि मण्डलानि एव तद्वद्वा कैश्यं केशानां समूहो यासाम् । पश्चात्कर्मधारयः । पुनः किंभूताः । मानसावासा हंसास्त एव तद्वद्वा विशदो हासो यासाम् । पुनः किंभूताः । कनकस्य वर्णस्य कमलानि तैस्तद्वद्वा गौर्य: गौराङ्गयः । पुनः किंभूताः । वीचीनां कल्लोलानां माला श्रेणी सैव तद्वद्वा वली उदरे मांससंकोचलक्षणा यासाम् । पुनः किंभूताः । रसं जलं शृङ्गारादिकं च भजन्ते इति रसभाजः ॥
कचन जिनगृहान्तर्दह्यमानागुरुभ्यः
प्रसरदमरमार्गप्रस्फुरद्वायुवाहम् ।