SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ १५ सर्गः] हीरसौभाग्यम् । ७७६ ७७ मरकतकटकाङ्कस्फाटिकानुच्चकूटो दरविदलितपुष्पप्रस्फुरच्चम्पकद्रुः । नरकदमननाभीपुण्डरीकाङ्कनिर्य- . जलजतनुजलीलामाललम्बे कदम्बे ॥ ५७ ॥ कदम्बे शत्रुजयाचले मरकतानामश्मगर्भमणीनां कटकस्य क्वापि नीलरत्ननिर्मितगिरिनितम्बस्याद्रिमध्यभागस्य अङ्कः क्रोडस्तत्र स्फाटिकं स्फटिकमणिसंबन्धि यदनुच्चं नात्युन्नतं नोत्तुङ्गम्। लघु इत्यर्थः। कूटं शिखरं किंचिदुच्चगिरिप्रदेशस्तस्योदरे मध्ये गर्भे वा विदलितैर्विनिद्रीभूतैः पुष्पैः कुसुमैः प्रस्फुरद्दीप्यमानश्चम्पकद्रुहेमपुष्पकपादपः कर्ता। नरकनानोऽसुरस्य दमनो हन्ता नारायणस्तस्य नाभ्यां तुन्दकूपिकायां यत्पुण्डरीकं श्वेताम्भोजं तस्याङ्कात् हृदयात् । उदरादित्यर्थः । निर्यतो निर्गच्छतो जलजतनुजस्य कमलभुवो ब्रह्मणो लीलां विलासमाललम्बे आश्रयते स्म । इति गर्भितोपमा ॥ रसिककरिविलोलत्कर्णतालौघतूर ध्वनिमधुकरराजीगुञ्जितोदात्तगीतौ । कचिदिह गुरुणेव प्रेरिता मारुतेन स्त्रिय इव वनवल्लयः पत्रहस्ता अनृत्यन् ॥ १८॥ इह श्रीसिद्धशैले क्वचित् कुत्रापि प्रदेशे स्त्रियो नृत्यकृत्कामिन्यो नर्तक्य इव वनवल्लयः काननोद्गतलता अनृत्यन् नृत्यन्ति स्म। किभूताः। मारुतेन वायुना प्रेरिताश्चपलीकृताः । उत्प्रेक्ष्यते—गुरुणेव । यथा नाटकाचार्येण सूत्रधारेण प्रेरिताः प्रवर्तितास्ताण्डवकारिकाः पात्राणि नृत्यन्ति । किंभूतानि । पत्राणि पर्णान्येव पवनचञ्चलवात् हस्तकाः पाणिविक्षे. पा यासां ताः। नृत्यन्ति कस्यां सत्याम् । रसिकाः खैरं खवशाभिवेनद्रुमेषु सल्लकीकाननेषु कीडारसकल्लोलितचेतसो ये करिणो गजेन्द्राः तेषां सशब्दं चञ्चलीभवतामितस्ततः संजाय.मानानां कर्णतालानां श्रोत्रपत्राणाम् । 'उपसि गजयूथकर्णतालैः' इति रघुवंशे । ओघाः समूहास्त एव तूराणां वादित्राणां ध्वनयो निर्घोषास्तथा मधुकराणां विकसितकुसुमारविन्दवृन्दमकरन्दविन्दुमदोन्मदबन्धुरगन्धसिन्धुरकपोलस्थलगलन्मदोदकपानमेदुरीभूतानां भ्रमराणां गुन्जितानि गुञ्जारवा एव उदात्ता मनोज्ञा गीतिर्गानं तस्यां सत्याम् ॥ लुलितगगनगङ्गासीकरासारवन्तः स्मिततरुवनमालामन्दमान्दोलयन्तः । विकचकुसुमपद्मामोदमेदस्विनो यं प्रभुमिव पवमानाः सेवकाः शीलयन्ति ॥ ५९॥ पवमाना मारुताः यं पुण्डरीकाचलं शीलयन्ति । के इव । सेवका इव । यथा अनु.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy