________________
७७४
काव्यमाला।
इहास्मिन् शत्रुजयनाम्नि शैलाखण्डले गिरीन्द्र विकचानि विनिद्राणि कुसुमानि पु. प्पाणि यस्मिन् तथा पीतत्वेन स्फीतिमद्दीप्यमानमथ वा पीतं हारिद्रवर्ण काश्चिजातयः श्वेताः काश्चिञ्च पीता अपि स्युरिति स्फीतिमत्प्रवर्धमानं यजातीनां मालतीनां जातं वृन्दं तस्योपरि परिमले सुरभितायां लुभ्यता लोभं प्राप्नुवता लोलानां चञ्चलानां मत्तानां मकरन्दपानेनोत्कटानामलीनां भ्रमराणां माला श्रेणी सा की । खगानां परिवृढः पक्षिणां खामी नायको गरुडः स्वर्णकायस्तस्य पृष्ठं ततः पश्चिमो भागस्तमधिष्ठितस्य स्थितस्याध्यारूढस्य वा अरिष्टनामासुरस्तस्य दस्योवेरिणः कृष्णस्य उपमितिमुपमानमलंचकार भूषितवान् । विष्णोरुपमा प्राप्तवतीत्यर्थः ॥
लिखितसुरपथाङ्कप्रस्थपुञ्जप्ररोह
न्मसृणसरसघासपासवृत्तिं सृजन्तः । क्षुधितमृगतुरङ्गाः खेदयन्ति स्म नक्तं
दिनमिदमुपरिष्टात्संचरच्चन्द्रसूर्यौ ॥ ५५ ॥ क्षुधिता नक्तं दिनाविश्रान्तिपरिभ्रमणप्रादुर्भवदुभुक्षाक्षामकुक्षयः मृगश्चन्द्रोत्सङ्गगतकुरङ्गस्तुरङ्गाः सूर्यरथरथ्याश्वाः कारः नक्तं दिनं रात्रौ दिवा च इदमुपरिष्टाद्विमलाचलोपरिप्रदेशे संचरन्तौ प्रचलन्तौ चन्द्रसूर्यौ शशिभास्करौ प्रति कर्मणी खेदयन्ति विषादमापादयन्ति । दुःखीकुर्वन्तीत्यर्थः । किं कुर्वन्तः । लिखितो निघृष्टः सुरपथस्याका. शस्य अङ्कः क्रोडो हृदयं येन तादृशो यः प्रस्थानां सानूनां पुञ्जः तत्र प्ररोहन्त्युद्गच्छन्तस्तथा मसणाश्चिकणाः सुकुमारास्तथा सरसाः सान्द्राः स्नेहलाः सुखादा वा ये घासास्तृणानि तेषां ग्रासैः कवलनैर्वृत्तिमाजीविकां प्राणाधारं सृजन्तः कुर्वन्तः ॥
कचन कनकशृङ्गे रङ्गिभृङ्गानुषङ्गि
क्षरदमितमरन्दस्पन्दसंदोहसान्द्रा । अलभत वयसीत्वं जम्भमाणा तमाला
वलिरिह यमुनाया भाखदङ्के स्थितायाः ॥ १६ ॥ इह शत्रंजयाद्रौ वचन कुत्रचन स्थानके कस्मिन्नपि वा कनकशृङ्गे सुवर्णशिखरे ज. म्भमाणा विकसन्ती तमालानां तापिच्छद्रुमाणामावलिः श्रेणी भाखदङ्के सूर्योत्सङ्गे स्थितायाः पितुः सवितुरुत्सङ्गे खेलन्या यमुनाया यमभगिन्या नद्याः वयसीत्वं सखीभावमलभत प्राप्नोति स्म । किंभूता। रङ्गो रङ्गणं पर्यटनम् । 'अगिरगिलगि गत्यर्थाः' इत्ययं धातुः । तथा रञ्जनं रङ्गो रागः । 'रज रागे' इत्यस्य प्रयोगश्च विद्यते । येषां ते रङ्गिणस्तेषां भृक्षाणां भ्रमराणामनुषङ्गः सङ्गो विद्यते येषु तादृशाः क्षरन्तो निःसरन्तोऽमिता मानातीता ये मरन्दा मधूनि त एव स्पन्दा रसास्तेषां संदोहा राशयस्तैः सान्द्रा नीरन्ध्रा पूर्णा ॥