________________
७७०
काव्यमाला।
यो विमलाद्रिः क्वचन क्वापि प्रदेशे कनकानां काञ्चनानां रत्नानां रक्तपीतमणीनां वा अधित्यका ऊर्श्वभूमिस्तस्या दीनां दीपनशीला दीप्ति कान्ति कलयति धत्ते । किंभूतां दीप्तिम् । दिनकरस्य सूर्यस्य कराणां किरणानां सङ्गात्संपर्कादाश्लेषाद्विहाय आकाशं गाहमानानां निर्भरं भरन्तीनाम् । गगनमण्डलं यावत् प्रसमराणामित्यर्थः । उत्प्रेक्ष्यतेसकलान् समग्रान् कुलगिरीन्द्रान् भूत्या आत्मलक्ष्म्या पराभूय जित्वा शैलो विमलशैलो. चयः स्वेनात्मना मूर्त तनूमन्तं सकललोकलोचनगोचरं तन्मन्दरमेरुकैलाशादिशैलाभिभवोद्भवं प्रतापमिव बिभर्ति ॥
बलिनिलयनिकेतैरात्मनः स्थूलमूलै__र्धरणिधरतया यो भूभृतां सार्वभौमः । निखिलजलधिनेमीभारभुग्नाङ्गभाजो
दिशति किमु कृपालुर्विश्रमं भोगिभर्तुः ॥ ४६॥ . भूभृतां समस्तपर्वतानां सार्वभौमश्चक्रवती, नगाधिराजाभिधानत्वात् शत्रुजयाद्रिः धरणिधरतया भूभृत्वेन । उत्प्रेक्ष्यते-भोगिभर्तुः शेषनागस्य , विश्रमं प्रयासापनोदं किमु दिशति ददातीव । कैः । आत्मनः स्थूलमूलैः पुष्टैः पदैः अधः प्रविष्टप्रदेशैः । किं. भूतैः ।बलिनिलये पाताले निकेतो निवासो येषाम्। 'पातालमूलकैलाशः' इत्यभिधानत्वाच्च । किंभूतस्य भोगिभर्तुः । निखिला समग्रा या जलधिनेमिः सप्तद्वीपसमुद्रपर्यन्ता पृथिवी तस्या भारो वीवधस्तेन भुमं वक्रीभूतमहं वपुर्भजतीति तस्य ॥
गगनगतयदग्रस्फारकासारफुल्ल
कुमुदकुवलयाङ्काभृङ्गरिञ्छोलिकाभिः। . निशि शशिनमवेक्ष्याधावि मुग्धाभिरूर्व
सुरसरिदलिलीलापुण्डरीकभ्रमेण ॥ ४७॥ भृङ्गाणां भ्रमराणां रिञ्छोलिकाभिर्देशीभाषया श्रेणीभिर्निशि रात्री शशिनं शशलाञ्छनं चन्द्रमवेक्ष्य दृष्ट्वा ऊर्ध्वमुच्चैर्गगनं प्रत्यधावि उड्डीनम् । केन । सुराणां देवानां सरिनदी गङ्गा तस्या अलिभिर्मधुपानागतमधुकरैर्युक्तं यल्लीलापुण्डरीकं क्रीडाकरणार्ह सिताम्भोजं तस्य भ्रमेण भ्रान्या । कस्मादधावि । गगने आकाशे गतं प्राप्तं यद्यस्य शत्रुजयस्याप्रमुपरितनशिखरं तस्मिन् स्फारो मनोज्ञः पानीयपूर्णो यः कासारः पञ्चवर्णच. न्द्रिकाविकाशिसूर्यविकाशिकमलाकरस्तडागस्तत्र फुल्लतां निशाकरकरसंपर्काद्विकखरीभ. वतां कुमुदानां कैरवाणां कुवलयानामुत्पलानामङ्काकोडात् । किंभूताभिः भृङ्गरिञ्छो. लिकाभिः । मुग्धाभिः अज्ञानाभिः सदसद्विवेकविकलाभिर्विचाराचतुराभिः सार्धपशुभिः रिव । यदुक्तम्-'हे मालति म्लायसि किं यदेष चुचुम्ब तुम्बी कुसुमं षडभिः । प्राणी चतुर्भिश्चरणैः पशुश्चेत्स षड्भिरध्यर्षपशुन किं स्यात् ॥' इति ॥