SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् । गलदमलमदाम्भःपङ्क्तिसंसिक्तवृक्षैः कचिदपि गजयूथैर्विन्ध्यवद्यो विभाति ॥ ४३ ॥ असौ शत्रुंजयाचलः क्वापि कुत्रचन प्रदेशे मलयगिरिरिव दक्षिणाचल इव विभाति । 'अथ मलय आषाढो दक्षिणाचल:' इति मलयादिनामानि हैम्याम् । कैः । काकोदराणां भुजगानामालीभिः राजीभिः कलितैरामूलचूलं वेष्टितैर्मलय सालैश्चन्दनद्रुमैः । किंभूतैः । निर्यान्तः श्रीखण्डवनखण्डेभ्यो निर्गच्छन्तः प्रसरन्तः आमोदाः परिमला विद्यन्ते येषु तादृशा वाता वायवो येभ्यस्तैः । अपि पुनः क्वचित्कस्मिंश्चिदपि स्थाने गजयूथैर्मत्तगजपुत्रैः विन्ध्यवज्ञलबालकरौल इव विभाति । किंभूतैः गजयूथैः । गलन्तीभिः कपोपालिभ्योऽविरल प्रवाहैः निष्पतन्तीभिः अमलाभिः अनाविलाभिर्मदाम्भसां दानजलानां पतिभिर्धोरणीभिः संतिक्ता: सम्यक्प्रकारेण उद्यानपालवत्सेकं सिञ्चनं प्रापिता वृक्षा बालसाला: प्रौढपादपा वा यैः ॥ १५ सर्गः ] करिकदनकपर्दक्रोडलीलायमानत्रिदिवसदनपाथोनाथपद्माननेव । क्वचन कनकशृङ्गोत्सङ्गरङ्गत्तरङ्गा ७६९ वृलिललितविलासा कापि कुल्योल्ललास || ४४ ॥ यत्र शत्रुज काप्यनिर्दिष्टाभिधाना चतुर्दशसु नदीषु अन्यतमा कापि काचित्कुल्या कल्लोलिनी उल्लास शोभते स्म । किंभूता कुल्या । कनकस्य काञ्चनमयस्य शृङ्गस्य शिखरस्योत्सङ्गे कोडे रङ्गन्ती प्रचलन्ती तरङ्गाणां कल्लोलानामावलिः श्रेणि: तया ललितो मनोज्ञ विलास विलसनं यस्याः सा । उत्प्रेक्ष्यते— करिणो गजासुरस्य कदनं हननं यस्मादिति कृत्वा शंकरः । 'गजपुष्पपुरानङ्गकालान्धकमखासुहृत् । हरः', तथा 'निग्रन्थन प्रमथनं कदनं निबर्हणम्' इति हनननामानि । इदं द्वयमपि हैम्याम् । तस्य शिवस्य कपर्दो जटाजूट: । ' कपर्दस्तु जटाजूट ईश्वरस्य' इत्यपि हैम्याम् । तस्य कोडेऽङ्के लीलायमाना लीलया चलन्ती विलसन्ती वा त्रिदिवः स्वर्गस्तत्र तदेव वा सदनं गृहं येषां 'तादृशा देवास्तेषां पाथसां पानीयानां नाथः स्वामी । 'यादः स्रोतोवानंदीशः सरखान्' इतिहैम्याम् । समुद्रस्तस्य कमलमुखी पत्नी । 'समुद्रदयिताधुन्यौ' इत्यपि हैम्याम् । नदी । एतावता देवनदी गङ्गेव स्फुरति स्म ॥ वचन कनकरत्नाधित्यकादीप्रदीप्तिं दिनकरकरसङ्गाद्गाहमानां विहायः । सकलकुलगिरीन्द्रान्यः पराभूय भूत्या कलयति किमु शैलः स्वेन मूर्त प्रतापम् ॥ ४५ ॥ ९७
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy