________________
काव्यमाला ।
विदलितदललीलाश्यामलीभूतभूमी
रुहनिवहनितम्बालम्बिजाम्बूनदस्नुः । प्रसृतझरपयस्कः प्रावृषेण्याम्वुवर्षि
स्फुरदशनिपयोदं योऽनुयातीव कान्त्या ॥ ४१॥ यः शत्रुजयादिः प्रावृषेण्यं वर्षाकालसंवन्धिनं अम्बु पानीयं वर्षतीत्येवंशीला, तथा स्फुरन्ती विद्योतमाना प्रतिदिशं चमत्कारं कुर्वती वा अशनिर्विद्युद्यत्र तादृशं पयोदं मेधं कान्या शोभया कृत्वा अनुयातीव आत्मना अनुकरोतीव । य: किंभूतः । विदलितानां विशेषेण विकाशं प्राप्तानामुन्मिषितम् । 'विकसितं दलितं स्फुटितं स्फुटम्' इति हैम्याम् । दलानां पत्राणां लीलया विलासेन श्यामलीभूतानां कृष्णच्छवीभूतानां भूमीकहाणां द्रुमाणां निवहाः समूहा यत्र तादृशं नितम्बमालम्बते श्रयतीत्येवंशीलम् । 'मेखलामध्यभागोऽनितम्वः कटकश्च सः' इति हैम्याम् । जाम्बूनदं काश्चनमय स्नुः शिखरं यस्य । पुनः किंलक्षणः । प्रसृतानि दिशि दिशि विस्तारं गतानि ऊढानि वा झराणां निर्झराणां पांसि जलानि यस्मिन् सः । 'नुः प्रस्थं सानु' इति हैम्याम् ॥
क्वचिदपि लसदाभ्रस्फाटिकोत्तुङ्गशृङ्गा
ङ्गणधरणिचरिष्णूः श्मास्पृशां प्रेक्ष्य लक्षाः । इति मतिरुदयासीद्यन्नितम्बस्थितानां
किमिह चरति पतिः स्वैरमेषा सुराणाम् ॥ ४२ ॥ यस्य शत्रुजयानितम्बे मेखलायां स्थितानामुषिताना वा पुंसामित्यमुना प्रकारेण मतिरुदयासीदाविर्भूता । इति किं का बुद्धिः । यदेषा प्रत्यक्षलक्ष्या सुरांणां देवानां पतिः धोरणी इह विमलाचले खैरं स्वेच्छया चरति विहरति भ्राम्यति वा । किं कृत्वा । क्वचिदपि कुत्रापि प्रदेशे विशेषे । 'लस श्लेषणक्रीडनयोः' इति धातुः । लसतां श्लि. प्यतामर्थात्परस्परं शिखरापेक्षया आत्रस्फाटिकानामाकाशस्फटिकरत्नानामिमानि आभ्रस्फाटिकानि । क्वचिद्वयोः पूर्वोत्तरपदयोद्धिर्भवति । 'आग्निमारुतं कर्म सौहार्दम्' इति सारखतव्याकर, तद्वदत्राप्युभयत्र वृद्धिः । आकाशस्फटिकमयानि क्रीडया कुतूहलेन वा देवैविरचिताने स्वाभाविकानि वा तथा उत्तुङ्गानि गगनाङ्गणालेङ्गीनि शृङ्गाणि शिखराणि तेषामङ्गणान्यजिराणि अधित्यका वा तेषां तासां वा धरणों भूमौ चरिष्णु: संचरणशीला श्मास्पृशां यात्रिकमानवानां लक्षाः शतसहस्राणि प्रेक्ष्य दृष्ट्या दृग्गोचरी. कृत्य । आकाशस्फटिकमणीनां चर्मचक्षुरलक्ष्यत्वात्सुराणां चाम्बरचारित्वादेषा घटना ॥
मलयगिरिरिवासौ कापि काकोदराली
कलितमलयसालैनियंदामोदिवातैः ।