________________
१९ सर्गः] हीरसौभाग्यम् । भोजप्रबन्धे । कचित्कुत्र च स्थाने इभ्यधाम व्यवहारिवेशमेव वसूनां मणीनाम् । 'रत्नं वसुमणिः' इति हैम्याम् । वर्णानां च । 'वर्ण हेमहिरण्यहाटकवसून्यष्टापदं काञ्चनम्' इत्यपि हैम्याम् । राजी श्रेणी धत्ते दधाति । अपि पुनः क्वापि शिखरादिप्रदेशे ब्रह्म वन्मोक्ष इव दुःखेनाधिगम्यते इति दुरधिगमं तस्य भावो दुरधिगमत्वं दुरारोहतामधत्त बिभर्ति स्म । पुनः क्वापि ऋषभकूटादौ लड़ेव दशकंधरनगरीव कनकसालं काञ्चनप्रा. कारं व्यधृत धरति स्म ॥
स्फुटकटतटनिर्यदानपाथःप्रवाहैः
. शिशुशिखरिसमूहान्सिञ्चदञ्चद्वनान्तः । . कचिदपि करियूथं विन्ध्यधात्रीभृतीव
प्रणयति रतिकेली यत्र सत्रा कलत्रैः ॥ ३९ ॥ यत्र शत्रुजये क्वचिदपि कुत्रचनापि वनगह्वरप्रदेशे करियूथं गजवृन्दं कलत्रैः खकरिणीभिः सत्रा साधै रत्या मनस्तुष्टया रागेण च केली विविधक्रीडां सुरतविलासं वा प्रणयति करोति । कस्मिन्निव । विन्ध्यधात्रीभृतीव । यथा खोत्पत्तिस्थाने विन्ध्यशैले गजघटा खवशाभिः । 'गजोऽस्य स्त्री धेनुका वशापि च' इति हैम्याम् । खैरं रमते । किं कुर्वन् । स्फुटं प्रकटं जननयनगोचरं यथा स्यात्तथा कटतटाभ्यां कपोलस्थलाभ्यां सकाशानिर्यद्भिनिःसरद्भिर्दानपाथसां मदोदकानां प्रवाहैर्धाराप्रवहणैः कृत्वा शिशूनां बालानां नवप्ररूढानां शिखरिणां वृक्षाणां समूहान् गणान् सिञ्चत् पानीयं पायन् । पुनः किं कुर्वन् । वनान्तर्विपिनमध्ये अञ्चत् चरत् ॥
त्रिदिवसदनभूभृत्सार्वभौमाध्वरोधो__रशिखरसहस्रः पुण्डरीकावनीभृत् । धरणिमिव फणाभिश्चक्रिणां चक्रवर्ती
त्रिदिवमिव दिधीषुर्लक्षकैर्लक्ष्यते स्म ॥ ४० ॥ पुण्डरीकावनीभृद्विमलाचलः त्रिदिवं खर्गलोकं दिधीषुः धर्तुमिच्छरिव लक्षकैर्दर्शयितृभिरवलोककलोकैलक्ष्यते ज्ञायते । कैः । त्रिदिवे खर्गे सदनं गृहं येषां ते त्रिदिवसदना देवास्तेषां भूभृत्पर्वतो मेरुः । 'स्वःस्वर्गिकाश्चनतोगिरिः' इति हैम्याम् । सुराचलस्तस्य सार्वभौमश्चक्रवर्ती शक्रः । 'जाम्बूनदोर्वीधरसार्वभौमः' इति नैषधे इन्द्राभिधानम् । तस्येन्द्रस्याध्वा मार्गो गगनम्। 'बहुविगाढसुरेश्वराध्वा' इति नैषधे च । तस्याध्वनो नभसो रोधे रुन्धने उदुरैरुत्कटैः शिखराणां शृङ्गाणां सहस्रैर्भूयस्तरदशशतीभिः प्रमितैः । कृत्वा इत्यर्थः । क इव । चक्रवर्तीव । यथा चक्रिणां नागानां सार्वभौमः शेषनागः सहस्रफणाभिः कृत्वा धरणिं भूमिं धत्ते। 'धरणिविरहिणि क्लान्तमुद्रे समुद्रे' इति नाटकशास्त्रे धरणि. शब्दो हखोऽप्यस्ति । 'मुदा यस्योद्गीतं सह सहचरीभिर्वनचरैर्मुहुः श्रुत्वा हेलोद्धृतध. रणिभारं भुजवलम्' इति वाग्भटालंकारेऽपि ॥