________________
काव्यमाला।
असुरसुरनराणां श्रेणिभिः सप्रियाणां
स शिखरिपृतनापाड् भूष्यते निर्विशेषम् । भुजगभवनदेवावासविश्वंभराणां
सममखिलविभूषादित्सयेवोत्सुकाभिः ॥ ३६ ॥ स शत्रुजयः शिखरिणां समस्तपर्वतानां पृतनाषाडिन्द्रः सप्रियाणां साङ्गानामसुराणां दानवानां नागानां वा सुराणां देवानां नराणां मनुष्याणां श्रेणिभिर्घोरणीभिर्निर्गतो. विशेषः सेवाविधौ यत्र तथा भूष्यते अलंक्रियते । उत्प्रेक्ष्यते-सममेककालं भुजगभवनं पाताललोकस्तथा देवावासः खर्गलोकः तथा विश्वंभरा भूलोकः एतासाम् । त्रिजगतामित्यर्थः । अखिलानां समप्राणां विभूषाणां शोभानां दित्सया दातुमिच्छया उत्सुकाभिरुत्कण्ठिताभिरिव ॥
मरकतशिखराणां पद्मरागोदराणां
दिशि दिशि जलधारोगारिनिर्यज्झराणाम् । क्वचिदुपरि नमन्तश्चञ्चलाकेलिमन्तो
ध्वनिनिरिह पयोदा जज्ञिरे वृष्टिमन्तः ॥ ३७॥ इह शत्रुजये क्वचित्कुत्रापि स्थले मरकतशिखराणामश्मगर्भमणिमयशृङ्गाणामुपरि ऊध्र्वशिरःप्रदेशे नमन्तः मिलित्वागत्य संस्पृशन्तः पयोदा मेघाः ध्वनिभिर्गजारवैरेव जज्ञिरे कथमपि ज्ञायन्ते स्म । शिखराणां किंभूतानाम् । पद्मरागाः लक्ष्मीपुष्पाणि रक्कमणयः उदरे गर्भ मध्ये येषाम् । पुनः किंभूतानाम् । दिशि दिशि सर्वास्वपि दिक्षु । 'दिशि दिशि किमिमानि प्रच्यवन्तेऽन्तरिक्षात्' इति चम्पूकथायाम् । जलानां पानीयानां धाराणां वृष्टीरुद्रिन्ति मुश्चन्तीत्येवंशीलं निर्यान्तः शिखरमध्यानिःसरन्तो झरा निर्झरप्रवाहाः येषु तेषाम् । किंभूताः पयोदाः । चञ्चलाया विद्युतः केलयो विलसनानि विद्यन्ते येषु । 'चिरविलसनाखिन्नविद्युत्कलनः' इति मेघदूतकाव्ये । पुनः किंभूताः । वृष्टिमन्तो निष्पन्ननीरधाराः ॥
कचिदवहदपाचीवीचिमालीव सेतुं
क्वचिदपि वसुराजीमिभ्यधामेव धत्ते । अपि दुरपिंगमत्वं ब्रह्मवत्वाप्यवत्त
व्यधृत कनकसालं कापि लङ्केव शैलः ॥ ३८ ॥ शैलः शत्रुजयाचलः क्वचित्वचन प्रदेशे अपाच्या दक्षिणस्या दिशो वीचिमाली समुद्र इव सेतुं पद्यामवहद्वहति स्म।रावणापहृतसीताप्रत्यायनार्थ लङ्कागमनावसरे रामेण दक्षि. णार्णवे सेतुर्बद्ध इति श्रुतिः । 'सेतुर्येन महोदधौ विरचितः क्वासी दशास्यान्तकः' इति