________________
१५ सर्गः] हीरसौभाग्यम् । जते । पृष्टे चढितः । पुनः किंभूतः । भसितैर्भस्मभिर्लसिता मनोज्ञीभूता मूर्तिर्यस्य । यस्योदूनशालिनः ॥
अनणिममणिमालाशालिनी यस्य सिन्धुः
प्रतिफलितविवस्खद्दीप्तिदुःप्रेक्षणीया । सुकृतभरितजन्तोर्गर्भमन्तर्वहन्ती
. युवतिमनुकरोति मेरदम्भोरुहास्या ॥ २५ ॥ यस्य श्रीश@जयस्य सिन्धुः काचित्तरङ्गिणी युवति तरुणीमनुकरोति । युवतीसदृशी भवतीत्यर्थः । किंभुता सिन्धुः । न विद्यते मूल्यापेक्षया महिना वा अणिमा लघिमा अल्पत्वं येषु एतावता बहुमूल्यानामप्रतिमप्रभाप्रभाववतां च मणीनां रत्नानां मालाभिः श्रेणीभिः शालते शोभते इत्येवंशीला । गिरिनदीषु मणिसद्भावः किरातार्जुनकाव्ये कथितोऽस्ति । किंभूता.। प्रतिफलितः अन्तर्जलं प्रतिबिम्बितो यो विवखान् सूर्यः तस्य दीप्त्या कान्या दुःखेन प्रेक्षितुं योग्या द्रष्टुमर्हा । किंभूतां युवतीम् । सुकृतेन प्राचीनजन्माचीर्णेन पुण्येन भारतस्योपचितस्य पूर्णस्य जन्तोर्जीवस्य गर्भ दोहदलक्षणमन्तः कुक्षौ वहन्तीं धारयन्तीम् । पुनः किंभूता । स्मेरद्रिनिद्रद्यदम्भोरुहं कमलं तद्रूपं विकसितसरोजवद्वा आस्यं मुखं यस्याः । 'स्मेरदम्भोजखण्डाभिः' इति पाण्डवचरित्रे । तथा युवत्यपि पुण्यप्राग्वद्गर्भानुभावाहुःप्रेक्षणीया । यथा 'धामैकधाम गङ्गाया इव भास्करं गर्भमन्तर्दधाना वा दुरालोकमभूद्वपुः' इति पाण्डवचरित्रे ॥
वृषभजिनगुणौघान्गायतः स्वक्वणस्या___ नुगुणरणितवीणान्किनरेन्द्रागिरीन्दः । क्वचन विकचमोचाचारुपत्रैर्घवित्रै
रिव पवनविलोलैर्वीजयामास मन्ये ॥ २६ ॥ . गिरीन्द्रः शत्रुजयपर्वताधिपतिः क्वचन कस्मिन्नपि कदलीसदनलतामण्डपादौ प्रदेशे - किंनरेन्द्रान्किपुरुषराजान् । उत्प्रेक्ष्यते-अहमेवं मन्ये वा । पवनविलोलैर्वातवेगान्दोलनचञ्चलोभूतैर्विकचानां विकसितानां मोचानां रम्भाद्रुमाणां चारुभिर्मनोहरैः पत्रैः महद्दलैवींजयामास निरन्तरगाढबहुलगीतिजनितश्रमापनोदाथ वीजयति स्मेव । कैरिव । धवित्रैरिव । यथा मृगचर्मव्यजनैः कश्चित्पार्थिवादीन् प्रीष्मसमये स्वेदबिन्दुकितकायान् वीजयति । 'व्यजनं तालवन्तं धवित्रं मृगचर्मणि' इति हैम्याम् । किंनरेन्दान् किं कुर्वतः । वृषभजिनस्य विमलाचलकमलाशृङ्गारहारस्य युगादिदेवस्य गुणानामोघान् गणान् गायतो गीतिगोचरीकुर्वतः । पुनः किंभूतान् । खक्कणस्य निजमधुरध्वनेरनुगुणा अनुगतः सदृशीभूतो गुणो नि:कणनरूपो यस्याः या तादृशी रणिता वादिता वीणा विपत्रिका येस्तान् ॥