________________
काव्यमाला।
कथंचिदुद्गतः विलासविधायकस्तमालद्रुमः अभावभौ । किंभूतस्तमालः । कनकस्य का. चनरचिते शिखरे शृङ्गे संतिष्ठते इति कनकशिखरस्थः । पुनः किंभूतः । तस्य कनकशिखरस्य छवियॊतिस्तया छन्नं व्याप्तं वर्म शरीरं यस्य । क इवाभात् । मुररिपुरिव । यथा नारायणो भासते। किंमतः । पीतं हारिद्रवर्ण स्फीतं मनोखं वासो वस्त्रं वसानः परिदधानः । वस्ते इति वसानः । 'गुणिप्रायाणि वस्त्राणि भूषणानि तव प्रभो । वसानश्च दधानश्च सत्कविरि तिष्ठति ॥' इति भोजप्रबन्धे । पुनः किंभूतः । विहगानां पक्षिणां विभुः खामी गरुडस्तेन विहरति विचरतीत्येवंशीलः ॥
उपरिपरिसरद्भिः पद्मरागाश्मगर्भ
स्फटिकघटितशृङ्गबातजातांशुपूरैः। अपि नभसि भुवीव ब्रह्मभूभानुपुत्री
त्रिदशजलधिगानां यस्तनोतीव सङ्गम् ॥ २३ ॥ यः श्रीशत्रुजयशैल: भुवि पृथिव्यामिव नभस्याकाशेऽमि ब्रह्मभूः सरखती, भानुपुत्री यमुना, त्रिदशजलधिगा गङ्गा, तासां सङ्गं संगमनं मेलनम् । त्रिवेणीसङ्गमित्यर्थः । तनोति करोतीव । कैः कृत्वा। उपरि नभोङ्गणे परिसरद्भिः परि समन्तात्प्रसरद्भिः पद्मरागा रक्त. मणयः, तथा अश्मगर्भाः मरकतरत्नानि, तथा स्फटिकाः श्वेतमाणिक्यानि तैः कृत्वा । 'रत्नं वसुमतीमाणिक्यमपि' इति हैमीवृत्तौ । घटितानां नाकिना शिल्पिना वा संकल्पितानां शृङ्गाणां शिखराणां वातावृन्दाबाताः प्रकटीभूता येऽशुपूराः किरणगणास्तैः कृत्वा । पद्मरागरुचिभिर्विरश्चिसुता सरखती हि कविसमये किंचिदरुणा वर्ण्यते । रुधिरप्रवाहस्य त्वस्या उपमानत्वेन मरकतमणिकान्तिभिर्यमुना तस्याः श्यामवर्णत्वेन स्फटिकरनज्योतिषा गङ्गा तस्या उज्ज्वलत्वेन । इति त्रिवेणीसंगमः ॥
कचिदपि मुचकुन्दोऽमन्दनिस्यन्दवृन्द
सितसुमविशदश्री राजतप्रस्थसंस्थः । समदसुरभिसूनोः पृष्ठ्यधिष्ठानभाजो
भसितलसितमूर्तेः प्राप शंभोर्विभूषाम् ॥ २४ ॥ क्वचिदपि श्रीशत्रुजयस्य कुत्रापि प्रदेशे मुचकुन्दो मुचकुन्दनामा पुष्पजातिवृक्षविशेषः शंभोरीश्वरस्य विभूषां शोभां प्राप लेभे । किंभूतः । अमन्दा अतिप्रचुरा ये नि. स्यन्दास्तेषां वृन्दानि पटलानि येषु तादृशानि स्मितानि विकसितानि सुमानि पुष्पाणि तैः विशदा उज्ज्वला श्रीः शोभा यस्य सः । पुनः किंभूतः । राजते रूप्यसंबन्धिनि प्रस्थे शिखरे संतिष्ठते इति संस्थः । शंभोः किंभूतस्य । समदो मदमेदुरो यः सुरभि. सूनुः अर्जुनीनन्दनो वृषमस्तस्य पृष्ठे 'पुंठि' इति लोके प्रसिद्धा तत्राधिष्ठानमाश्रयं भ.