________________
१५ सर्गः] हीरसौभाग्यम् ।
७५९ विविधनवचिरत्नायनदत्तात्मरने
निखिलमपि निहत्याकिंचनत्वं जनानाम् । मणिशिखरिणमद्रिर्दीनवाकारिणं यो
बहु तृणमिव चक्रे किंपचानं वदान्यः ॥ २१ ॥ अद्रिः श्रीशत्रुजयपर्वतः मणिशिखरिणं रोहणाचलम् । 'श्रेणीवर्जनदुर्यशोनिविशितवीडस्तु रत्नाचलः' इति नैषधे । तथा 'ये रत्नाचलवासिनो हि मनुजास्तेषां न रलोद्यमः' इति सूक्ते । यथा रत्नाचलस्तथा मणिशिखरी । तं बहु धनं यथा स्यात्तथा तृणं तृणप्रायमकिंचित्करमिव चक्रे कृतवान् । किं कृत्वा । जनानां खाश्रितभविकलोकानां निखिलं समस्तमपि अकिंचनत्वं दरिद्रभावं निहत्य मूलादुच्छेद्य । कैः कृत्वा । विविधानि नानाप्रकाराणि 'वज्र-वैडूर्य-लोहिताक्ष-मसारगल्ल-हंसगर्भ-पुलक-सौगन्धिकज्योतीश्वर-अञ्जन-अञ्जनपुलंक-जातरूप-सुभग-अङ्क-स्फटिक-कर्केतन-मरकत-प्रवाल-इन्द्रनील-चन्द्रप्रभ' इति सिद्धान्तोक्तानि, 'पद्मराग-गरुडोद्गार-राजपट्ट-चन्द्रकान्त-सूर्यकान्त-माणिक्याद्यानि नवानि नवीनोत्पन्नानि चिरत्नानि चिरकालोद्भतानि । 'चिरत्नरत्नाचितमश्चितं चिरात्' इति नैषधे । 'चिरत्नानि चिरकालजातानि' इति तदृत्तिः । अयत्नदत्तानि प्रयास विनैव प्रकटस्थितत्वेन खननाद्युपक्रममन्तरेण विश्राणितानि यान्यात्मनः स्वस्य खस्मिन्नुत्पन्नत्वेन निजस्यैव रत्नानि माणिक्यानि तैः । अद्रिः किंभूतः । वदान्यो दानशीलः । किंभूतं मणिशिखरिणम् । दीनां कृपणाम् । 'कृपाश्रये यः कृपणे पतत्रिणि' इति नैषधे । 'कृपणे दीने' इति तदृत्तिः । 'कृपणः कदर्य दीने च' इत्यनेकार्थः । हस्ताभ्यां भालमास्फाल्य हा तात हा मातः इति वाचं वाणीं कारयतीत्येवंशीलम् । यदुक्तम्-'हा दैवेति वचो विना न ददते वज्राणि वज्राकराः' इति सूक्ते । तथा 'दैन्योक्त्या रोहणाद्रिः खरमुखरतरं पुष्करावर्तमेघाः' · इति सोमसुन्दरसूरिकृतऋषभदेवस्तवे । तथा 'धिग्रोहणं गिरि दीनदारियव्रणरोहणम् । दत्ते हा दैवमित्युक्त रत्नान्यर्थिजनाय यः ॥' इति विक्रमादित्यादिभिरुक्ते । अत एव पुनः किंभूतम् । किंपचानं कदर्यम् ॥ '. . विदलितदलमालाशालिलीलातमाल:
कनकशिखरसंस्थस्तच्छविच्छन्नवर्मा । मुररिपुरिव पीतस्फीतवासोवसानो
विहगविभुविहारी यत्र शत्रुजयेऽभात् ॥ २२ ॥ यत्रं यस्मिन् श्रीशत्रुजयधात्रीधरे विदलिताभिर्विकसिताभिर्दलानां मरकतमणिगणाच्छिन्नच्छविच्छायानां पत्राणां मालामिः श्रेणीभिः शालते शोभते इत्येवंशीलो यो लीलातमाल: विद्याभृद्भिर्मानवैर्वाडा(?)कृते रोपितस्तापिच्छतरुः । अथ वा खयमेव