________________
७५८
काव्यमाला।
'सिद्धशैल: शत्रुजयाद्रिर्बहलेन नीरन्ध्रेण सान्द्रेण जलमुचा नीरदेन कृत्वा । उत्प्रेक्ष्यते-अङ्गभाजो यात्रिकजनान् शैत्यैः शीतलताभिः सुखयितुं सुखीकर्तु शीतलान्वि. धातुमिवातपत्रं मायूरपिच्छच्छत्रं तनोति विस्तारयति । शिरसि धत्ते इत्यर्थः । किंभूतानङ्गभाजः । खकान्यात्मीयानि शिखराणि शृङ्गाणि तेषां शिखानामग्राणामङ्के उत्सङ्गे स्थायुकान संस्थायिनः उपविशनशीलान् । पुन: किंभूतान् । खस्मिन्नात्मनि विषये एकतानानेकाग्रचित्तान् । पुन किंभूतान् । कमलवन्मृदुल: सुकुमारो देहः शरीरं ये.. षाम् । पुनः किंभूतान् । तापनेन सूर्येण तापितान् संतप्तीकृतकायान् ॥
स्वभवविभवभूम्मा लम्भितेनाभिभूति
त्रिदशशिखरिमुख्याशेषशैलबजेन । किमु विमलगिरीन्दो रूप्यरत्नार्जुनाङ्गा
निजनिजशिखरौघाः प्रापिताः प्राभृतत्वम् ॥ १९ ॥ . त्रिदशशिखरी मेरुर्मुख्यः प्रकृष्टो येषु तादृशा अशेषाः समस्ता ये शैलाः पर्वतास्तेषां बजेन समूहेन विमलगिरीन्दोः श्रीशत्रुजयशैलशक्रस्य । उत्प्रेक्ष्यते-निजस्य शिखरौघाः शृङ्गगणाः । 'निजस्य तेजः शिखिनः परश्शताः' इति नैषधे। प्रातत्वमुपदाभावं प्रा. पिताः । ढौकिता इत्यर्थः । किंभूताः । रूप्यं रजतं रत्नानि मणयः अर्जुनं वर्ण तेषामङ्गं शरीरं येषां ते । रजतरत्नहेममया इत्यर्थः । किंभूतेन । त्रिदशशिखरिमुख्याशेषशैलबजेन । खस्माद्विमलशैलात्मनो भव उत्पत्तिर्येषां तादृशानां विभवानां शोभासंपदा भूम्रा बाहुल्येन । अभिभूतिं पराभवं लम्भितेन प्रापितेन ॥ · ,
विमलशिखरिकुण्डा वल्लरीः शैवलाना
मुपरि बहलितानामुद्वहन्तो विभान्ति । । प्रवसितदयितानां कामिनीनां कपोला
इव लुलदलकाङ्काः पाण्डिमानं धानाः ॥ २० ॥ विमलशिखरिणः श्रीशत्रुजयगिरेः कुण्डा जलस्थानानि विभान्ति शोभन्ते । किं कुर्वन्तः । उपरि खसलिलो भागे बहलितानां निच्छिद्रीभूतानां सान्द्राणां शैवलानां शेवालानां वल्लरीमञ्जरीः । 'मञ्जरी वल्लरीश्च सा' इति हैम्याम् । उद्वहन्तो धारयन्तः । के इव। कपोला इव । यथा प्रवसिताः पथिकीभूताः परदेशं प्राप्ता वा दयिता भर्तारो यासा तादृशीनां कामिनीनां विरहविधुरवधूनां कपोलाः गण्डा गल्ला राजन्ते। किंभूताः । लुलन्तः पतिव्रता व्रततया प्रियप्रवासवासरादारभ्य अबद्धत्वादुपरि पतन्तो गण्डस्थले मिलन्तः अलकाः केशा अङ्के उत्सङ्गे येषाम् । पुनः किं कुर्वाणाः । पाण्डिमानं पाण्डुरभावं दधानाः । विरहे हि प्रायः पतिव्रतानां कपोला धवलीभवन्ति । यदुक्तं नैषधे-'विरहपाण्डुकपोलतले विधुः' इति ॥